________________
शास्त्रवार्तासमुच्चयः।
[तृतीयः नास्त्येव, अथापि सूर्यप्रतिबिम्बो जले भवति तद्ब्रहणशीलं जलं तत्प्रकाशवदिव भवति तथा स्वच्छत्वाद् दर्पणकल्पबुद्धिगतचैतन्यप्रतिबिम्बतो बुद्धिश्चेतनावदिव भवति, स्वप्रतिबिम्बाकलितभोक्तृबुद्धिसान्निध्यात् पुरुषो भोक्तेव भवतीत्यर्थः, अत्र श्रीमन्तो यशोविजयोपाध्यायाः-“यद्यप्येवमपि सुखदुःखाद्यन्तःकरणधर्मानुविद्धस्य महत एव स्वतोऽचेतनस्य चेतनोपरागेण 'चेतनोऽहं सुखी' इत्यायभिमानरूपश्चैतन्यांशेऽतात्त्विको भोगः, न तु पुरुषस्य, तथापि भोक्तृबुद्धिसंविधानात् तत्र भोक्तृत्वव्यवहारः, तदाह पतञ्जलिः-"शुद्धोऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति, तदनुपश्यन्न तदात्माऽपि तदात्मक इव प्रतिभासते” इति, केचित् तु बुद्धौ पुरुषोपरागवत् पुरुषेऽपि बुद्धयुपराग वर्णयन्ति, न चैवं विकृतत्वापत्तिः, अतात्विकोपरागेण तदयोगात् , तथा चाह वादमहार्णवः- “बुद्धिदर्पणसंक्रान्तमर्थप्रतिबिम्बकं द्वितीयदर्पणकल्पे पुंस्थाध्यारोहति तदेव भोक्तृत्वमस्य, न तु विकारोपपत्तिः” इति, बुद्धिगतप्रतिबिम्बात्मन्येव बुद्धिगतभोगोपसंक्रमः, बिम्बात्मनि तु न किञ्चिदित्यपरे” इति, ग्रन्थकारः स्वोक्तार्थे सायाभिमते तदभियुक्तसम्मतिमुपदर्शयति-यथोक्तमिति, पूर्वसूरिभिः विन्ध्यवास्यादिभिः साङ्ख्याचायः ॥ २७ ॥ २२० ॥ तदुक्तमेवोल्लिखतिपुरुषोऽविकृतात्मैव, स्वनि समचेतनम् । मनः करोति सानिध्यादुपाधिः स्फटिकं यथा ॥२८॥२२१॥
पुरुष इति-आत्मेत्यर्थः, अविकृतात्मैव नित्य एव, अप्रच्युतानुत्पन्नस्थिरैकस्वभाव एवेति यावत् , अचेतनं चैतन्यशून्यम् , मनः अन्तःकरणम् , सान्निध्यात् सामीप्यात् , स्वनिर्भासं स्वाकारं, स्वोपरक्तमिति यावत्, करोति कुरुते, अत्र निदर्शनमाह-यथेति, उपाधिः पद्मरागमण्यादिः, स्फटिकं उपलविशेषं, यथा स्वधर्मसंक्रमेण स्वोपरक्तं करोति, न च स्वधर्मसंक्रमेण पद्मरागादिर्विकरोति, किन्तु स्फटिक एव विक्रियते, तथाऽऽत्माऽपि बुद्ध्युपरागं जनयन् न स्वयं विकरोति, किन्तु बुद्धिरेव विक्रियत इति ॥ २८ ॥ २२१ ॥
यदि नामैवं ततः किमित्यत आहविभक्तेदृक्परिणतो, बुद्धौ भोगोऽस्य कथ्यते । प्रतिबिम्बादयः स्वच्छे, यथा चन्द्रमसोऽम्भसि ॥ २९ ॥ २२२॥
wwwwww