SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ स्तबकः ] स्याद्वादवाटिकाटीकासङ्कलितः बुद्धिगतधर्माणां रागादीनां सूक्ष्मरूपतयाऽवस्थानं प्रकृतावभ्युपगम्य तस्मात् कारणत्वमुपपाद्यते, तथा घटादिगतधर्माणामपि सूक्ष्मरूपतया कुलालादाववस्थानं स्वीकृत्य तस्य घटादिकारणत्वमिति न कल्प्यते बाधकाभावात् ॥ २५ ॥ २१८ ॥ चेतने पुरुषेऽचेतनधर्मस्य कर्तृत्वस्य सङ्क्रमाभ्युपगमे परिणामित्वमापद्यते, कुलालादिदेहस्तु घटादिकर्ता ऽतोऽभ्युपगम्यत इत्याशङ्कयाह तत्रापि देहकर्ता चेन्नैवासावात्मनः पृथक् । १३३ पृथगेवेति चेद् ? भोग, आत्मनो युज्यते कथम् ॥२६॥२१९॥ तत्रापीति-घटादावपीत्यर्थः, देहकर्तेति स्थाने देहः कर्तेति हारिभद्र पाठो युक्तः, देहः कुलालादिदेहः, कर्ता घटादेः कर्ता, स्थूलरूपावच्छिन्नस्य घटादेः कुलालादिशरीरगतचेष्टयोत्पादात् इति चेत् ? इत्थमुपेयते इति पराशङ्का, तत्रोत्तरं-नैवेति-अस्य पृथगित्यनेनान्वयः, असौ देहः, आत्मनः पुरुषात्, पृथकू भिन्नो नैवेत्यर्थः, उत्तरमिदं लोकायतिकमतमाश्रित्य पर आह - पृथगेवेति चेदिति - आत्मा सर्वगतो निष्क्रियश्च, देहस्त्वसर्वगतः सक्रियश्चेत्येव विरुद्धधर्माध्यासादात्मा.देहाद् भिन्न इति यदि त्वं मन्यसे तत्रोत्तरं - भोग आत्मनो युज्यते कथमिति य एव यस्य कर्ता स एव तस्य भोक्ता, देहाद् भिन्नस्यात्मनो मुक्तकल्पस्य भोगः कथं युज्यते ? - न कथञ्चिदित्यर्थः, क्षीरनीरन्यायेन देहाभिन्नस्यैवात्मनो देहोपनीतभोगसम्भवादित्याशयः ॥ २६ ॥ २१९ ॥ " परमार्थतो नास्त्येवात्मनो भोग इति भोगाभावापत्तिरिष्टापत्तिरूपत्वान्न दोष इति स्वाभिप्रायं परः प्रकटयति wwwww देहभोगेन नैवास्य, भवतो भोग इष्यते । प्रतिबिम्बोदयात् किन्तु यथोक्तं पूर्वसूरिभिः ||२७||२२०|| " देहभोगेनेति - देहेन भोगो देहभोगस्तेन देहभोगेन, अस्य भोग इत्यनेन सम्बन्धः, धान्येन धनमितिवदभेदे तृतीया, अथवा देहभोगेनेत्यस्य देहभोगद्वारेणेत्यर्थः तथा च देहजन्यभोगाभिन्नभोगो देहद्वारा वा भोगः, अस्य आत्मनः, भावतः परमार्थतः, नैव इष्यते साङ्ख्याचार्यैनैवाभ्युपगम्यते, यदि परमार्थतो नात्मनो भोगस्तर्हि कथं तस्य स इति पृच्छति - किन्त्विति, उत्तरयति-प्रतिविम्वोदय न्यायादिति-यथा जलं न सूर्यस्वरूपमिति सूर्यप्रकाशो जले परमार्थतो
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy