________________
शास्त्रवार्तासमुच्चयः ।
[तृतीयः तदुपादानतायां महदादेः प्रधानात्मकोपादानसहिततायामभ्युपगम्यमानायां, न नैव, तस्य प्रधानस्य, एकान्तनित्यता अप्रच्युतानुत्पन्नस्थिरैकरूपता, अनित्यमहदाधुपादेयाभिन्नत्वेन महदादिनाशे तन्नाशभावात् ; ननु महदादेरनित्यत्वे तदभिन्नत्वात् प्रधानस्यानित्यत्वं भवेत् , तदेव तु न महदादेरपि नित्यतयैवाभ्युपगमादिति चेत् ? तर्हि प्रकृति-महदाद्योर्नित्ययोः परस्परानपेक्षसत्त्वतः प्रकृतिविकृतिभाव एव न भवेदिति प्रकृतिविकृतिप्रक्रिया भन्ना, नित्यत्वेन महदादेर्मुक्तावपि सत्त्वे तत्सत्त्वासत्त्वाभ्यां पुरुषस्य संसारापवर्गावित्यस्तमुपगच्छेत् ; महदादेः प्रकृतिपरिणामत्वेन प्रकृत्यभिन्नत्वेऽप्यनित्यत्वादिना भेद एवेति चेत् ? तर्हि भेदाभेदलक्षणानेकान्तवादाभ्युपगन्तृत्वेनैकान्तवादित्वभङ्गः प्रसज्येतेति ॥ २४ ॥ २१७ ॥ . स्थूलमपि सकर्तृकं न तूपादानैककारणकमिति प्रतिपादयतिघटाद्यपि कुलालादिसापेक्षं दृश्यते भवत् । अतो न तत् पृथिव्यादिपरिणामैकहेतुकम् ॥ २५ ॥ २१८ ॥ घटाद्यपीति-आदिपदात् पटादिस्थूलकार्याणामुपग्रहः, कुलालादिसापेक्षमिति-अत्रादिपदात् तन्तुवायाधुपग्रहः, तथा च स्थूलकार्यजातं कर्तृसापेक्षमित्यर्थः, भवत् जायमानं, दृश्यते प्रत्यक्षप्रमाणेनोपलभ्यते, तथा च कुलालादिसत्त्वे घटादिसत्त्वम् , कुलालाद्यभावे घटाद्यभाव इत्यन्वयव्यतिरेकानुविधानदर्शनेन घटादीनां कुलालादिकर्तृकत्वावधारणात् , अतः अस्मात् कारणात् , तत् स्थूलकार्यजातम् , पृथिव्यादिपरिणामैकहेतुकं पृथिव्यादिपरिणामिमात्रकारणप्रभवम् , न न भवति, पृथिव्यादिपरिणामिकारणानामपि घटादीन् प्रति नियतान्वयव्यतिरेको विना न कारणत्वग्रहः, नियतान्वयव्यतिरेकौ च घटादीन् प्रति कुलालादीनामपि स्त इति तेषामपि कारणत्वावधारणात् ; कार्यगतयावद्धर्मानुविधायित्वं परिणामिकारणस्यैवेति तदेव कारणं, कुलालादीनां घटादिगतयावद्धर्मानुविधायित्वाभावान्न कारणत्वमिति चेत् ?, तर्हि महत्तत्त्वगता रागादयोऽपि प्रकृतौ स्वीकर्तव्याः, अन्यथा तस्या अपि महत्तत्त्वलक्षणकार्यगतयावद्धर्मानुविधायित्वाभावात् कारणत्वं न स्यात्, तथा च भावाष्टकवत्त्वात् प्रकृतिरेव बुद्धिः, न तु प्रकृतिः, ननु प्रकृतौ रागादयः सूक्ष्मरूपतया सन्ति, बुद्धौ तु स्थूलरूपतया ते सन्तीत्येवं प्रकृति-बुद्ध्योर्भेद इति चेत् ?, तर्हि लयाद्यवस्थायां बुद्धेः सूक्ष्मरूपतयाऽवस्थानात् तदानीं तत्र रागादयोऽपि सूक्ष्मरूपतयाऽवस्थिता इति बुद्धिरेव प्रकृतिस्तथाऽप्यनुषज्यते, यथा च