SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ स्तबकः ] - स्याद्वादवाटिकाटीकासङ्कलितः .. महदादिजननस्वभावत्वमेव नान्यदिति महदादिजननस्वभावत्वलक्षणप्रधानत्वव्यतिरिक्तस्वभावव्यवच्छेद इति, तथा च महदादिजननस्वभावत्वलक्षणप्रधानत्वाप्रच्युतावपि महदाद्युत्पत्तिः, इति चेत? एवं परो मन्यते चेत्, तदा सर्वदा किं न महदादिकं सर्वदा किं न भवति, सन्निधानमात्रेण महदादिजननस्वभावस्य प्रधानस्य सर्वदा सत्त्वात् , जगजननस्वभावस्य प्रधानस्य सन्निधानेनैकदैव जगत् स्यात् , समर्थस्य कार्यकरणविलम्बायोगादित्याशयः, पर आह-अत एवेति-सर्वदा प्रधानं महदादिकं न जनयतीति कदाचित्तजननस्वभावादर्थतः प्राप्तादेवेत्यर्थः, तथा च न सर्वदोत्पत्तिप्रसङ्गः, तथा स्वभावाभावादित्याशयः, वाद्याह-इति चेदिति-एवं त्वं मन्यसे यदीत्यर्थः, ननु इत्याक्षेपे, तस्य प्रधानस्य तथात्वे नियतस्वरूपाविकृतत्वे, तत् कदाचिजननस्वभावत्वं, कुतः कस्माद् भवेत् ? न कुतश्चिदपीत्यर्थः, एकरूपा हि प्रकृतिर्यदि महदादिजननस्वभावा तदा सदैव महदादि जनयेत् , यदि न महदादिजननस्वभावा कदापि महदादि न जनयेत् , यत्काले महदादिजननं तत्कालावच्छिन्नजनननिरूपितत्वं, यत्काले जननं न भवति तत्कालावच्छिन्नाजनननिरूपितत्वमेकस्मिन् स्वभावे उपगम्य तत्तत्कालावच्छिन्नजननाजननोभयनिरूपितकस्वभावत्वं प्रधानस्येति ततः कदाचिन्महदादिजननं कदाचित् तदजननमित्युभयमपि सम्भवतीति चेत् ? जननाजननयोस्तत्तत्कालावच्छिन्नत्वे सिद्ध सति प्रधानस्य तत्तत्कालावच्छिन्नजननाजननोभयनिरूपितैकस्वभावत्वं सिध्यति. निरुक्तस्वभावत्वसिद्धौ च जननाजननयोस्तत्तत्कालावच्छिन्नत्वसिद्धिरित्यन्योऽन्याश्रयः, जननाजननयोः स्वस्वभावादेव तत्तत्कालावच्छिन्नत्वे च किमिति प्रकृत्यादिप्रक्रियाकल्पनाक्लेशेन? कारणमन्तेरणैव तत्तत्काले प्रतिनियततत्तत्कार्यसम्भवेन स्वभाववादस्यैव साम्राज्यादित्याशयः ॥ २३ ॥ २१६ ॥ एकान्तनित्यप्रधानाकरणे युक्त्यन्तरमुपढौकतेनानुपादानमन्यस्य, भावेऽन्यज्जातुचिद् भवेत् । तदुपादानतायां च, न तस्यैकान्तनित्यता ॥ २४ ॥ २१७ ॥ नानुपादानमिति-नजो भवेदिति क्रियया सम्बन्धः, अनुपादानं उपादानकारणरहितम्, अन्यस्य सर्वथोपादेयमहदादिव्यतिरिक्तस्य प्रधानस्य, भावे सन्निधाने, अन्यत् प्रधानाद् भिन्नमेकान्ताविद्यमानं महदादि, जातुचित् कदाचिदपि, न नैव, भवेत् जायेत, सर्वथाऽसतः सत्त्वासम्भवात् , च पुनः,
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy