________________
१३० शास्त्रवार्तासमुच्चयः ।
[तृतीयः कथं श्रद्धामात्रगम्यमेतन्न तु तात्त्विकमित्यपेक्षायामाहयुक्त्या तु बाध्यते यस्मात् , प्रधानं नित्यमिष्यते ।। तथात्वाप्रच्युतौ चास्य, महदादि कथं भवेत् ॥२२॥२१५॥ युक्त्या विति-सत्तर्कादिसद्रीचीनविचारेण तु पुनरित्यर्थः, बाध्यते बाधित भवति, युक्तिबाधितत्वमेव भावयति-यस्मादिति, प्रधान प्रकृत्यपरनामकम् , नित्यं अप्रच्युतानुत्पन्नस्थिरैकस्वभावम् , इष्यते सत्कार्यवादिभिः साङ्ख्याचार्यरभ्युपगम्यते, अस्य प्रधानस्य, तथात्वाप्रच्युतौ च प्रधानत्वाविनाशे पुनः, महदादि महदहङ्कारादिकम् , कथं भवेत् कस्मात् प्रकृतितो जायेत, पूर्वस्वभाव, परित्यागाऽपूर्वस्वभावोपादानाभ्यामेव कार्यकारणभावनियमात्, स्वर्णस्याङ्गदादिपरिणामनाशेनैव कुण्डलादिपरिणामोत्पाददर्शनात् प्रधानस्य प्रधानत्वप्रच्युतौ तद्रूपेणैव सर्वदा व्यवस्थितस्य बुद्धयादिरूपेण परिणमनासम्भवादित्याशयः ॥२२॥२१५॥
नन्वपूर्वस्वभावोत्पत्त्या कार्यकारणभावो न साङ्खयैरुपेयते येन पूर्वस्वरूपनाशे सत्येवापूर्वस्वभावोत्पत्तिरिति पूर्वापररूपभेदादनित्यता प्रधानस्य प्रसज्येत, किन्तु यथाऽपरित्यक्तसर्पभावस्य सर्पस्य कुण्डलावस्था भवति तथाऽपरित्यक्तप्रधानभावस्यैव प्रधानस्य महदादिपरिणामो भवतीत्येवमभ्युपगमे को दोषः ? अवस्थित एव नरे धर्मिणि युवत्ववृद्धत्वादिपरिणामयोः पूर्वोत्तरभावनियमेनाऽवस्था सांकर्यादित्यभिप्रायं परस्योदृश्य निराकुरुते
तस्यैव तत्स्वभावत्वादिति चेत् किं न सर्वदा ? । अत एवेति चेत् तस्य, तथात्वे ननु तत् कुतः ? ॥२॥२१६॥ तस्यैवेत्यवतारयन्ति उपाध्यायाः; हरिभद्रसूरयस्तु पराभिप्रायमाहेत्येवावतरणिकां दर्शितवन्तः, पराभिप्रायस्त्ववतारितपद्यगतोऽस्त्येव, तस्य पराभिप्रायत्वेन सामान्यतोऽभिधानं विशिष्य स्वरूपप्रकटनं वेत्यत्र न कश्चिद् विशेष इति बोध्यम् , तस्यैव प्रधानस्यैव, एवकारेणान्यस्य तथास्वभावव्यवच्छेदः, एवकारेण स्वभावान्तरव्यवच्छेद इत्युपाध्यायोक्तौ प्रधानाद् भिन्नस्वभावं वस्तु स्वभावान्तरं, तस्य व्यवच्छेदः-स्वभावान्तरवतो व्यवच्छेद इति यावत् , तत्स्वभावत्वात सन्निधानमात्रेण महदादिजननस्वभावत्वात् , अथवा एवकारेण स्वभावान्तरव्यवच्छेद इत्युपाध्यायोक्तेरयमभिप्रायः-प्रधानस्य प्रधानत्वं सन्निधानमात्रेण
w