________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः
१२९ प्रधानादिति-प्रकृतितत्त्वादित्यर्थः, महतः बुद्धितत्त्वस्य, भावः स्वाधिकरणक्षणध्वंसानधिकरणस्वाधिकरणक्षणवृत्तित्वरूपाद्यक्षणसम्बन्धलक्षणोत्पत्तिः सत्कार्यवादे न सम्भवतीति आविर्भावः, ततोऽपि च महतोऽपि च, अहङ्कारस्य वैकारिकाहङ्कारादेः, भाव इत्युत्तरत्राप्यनुषञ्जनीयम् , 'ततोऽपि' इत्युत्तरत्राप्यनुवर्तते, तथा च ततोऽपि-अहङ्कारादपि, अक्षतन्मात्रवर्गस्य एकादशेन्द्रिय-पञ्चतन्मात्रेति षोडशगणस्य, भावः-आविर्भाव इति सम्बन्धनीयम्, तन्मात्राद् तन्मात्राणां बहुत्वेऽपि जात्यपेक्षयैकवचनमिति पञ्चतन्मात्रेभ्यः, भूतसंहतेः आकाशादिपञ्चभूतस्य भावः-प्रादुर्भावः ॥ १९ ॥ २१२ ॥ स्थूलकार्यमधिकृत्याहघटाद्यपि पृथिव्यादिपरिणामसमुद्भवम् । नात्मव्यापारजं किञ्चित् , तेषां लोकेऽपि विद्यते ॥२०॥२१३॥ घटाद्यपीति-घट-पट-मठादिस्थूलकार्यजातमपीत्यर्थः, पृथिव्यादिपरिणाम समुद्भवं पृथिव्यादीनां मृदाद्यात्मकानां परिणामाद् विलक्षणसंयोगादितः, समुद्भवः-आविर्भाव यस्य तत् , परिणामात् परिणामान्तरमित्येवं सावयैरुपगमात् , तेषां साङ्ख्यानां मते, लोकेऽपि जगत्यपि, आत्मव्यापारजं चैतन्यस्वरूपात्मव्यापारप्रभवं, किञ्चित् किमपि कार्यम् , न विद्यते नास्ति, साङ्ख्यमते कर्तुरात्मनो व्यापारस्यैवाभावात् तत्कार्यं न समस्तीति ॥ २० ॥ २१३ ॥ सत्कार्यवादिप्रतिपक्षासत्कार्यवाद्यभ्युपगतविषयिणीं वार्तामाहअन्ये तु ब्रुवते ह्येतत् , प्रक्रियामात्रवर्णनम् । अविचार्यैव तद् युक्त्या, श्रद्धया गम्यते परम् ॥२१॥२१४॥ अन्ये त्विति-असत्कार्यवादिनः सौगतादय इत्यर्थः, ब्रुवते कथयन्ति, हि यतः, एतत् अनन्तरोदितम् , प्रक्रियामात्रवर्णनं, साङ्ख्याचार्ययदृच्छाकल्पितपरिभाषामात्रोपवर्णनम् , मात्रपदेन तात्त्विकव्यवच्छेदः, तत् तस्मात् कारणात् , युक्त्या सत्तर्कादिना, अविचार्येव विचारमकृत्वैव, परं केवलं, श्रद्धया आचार्यपरम्परोपदर्शितार्थभक्त्या-यद् यद् यथा साङ्ख्याचारभिहितं तत् तत् तथैवेत्येवंरूपया, गम्यते अध्ययनाध्यापनादिविषयतयोपादीयते ॥ २१ ॥ २१४ ॥
९ शास्त्र०स० द्वि०