________________
१२८ शास्त्रवार्तासमुच्चयः।
[तृतीयः ऽहमित्यनुव्यवसायादुपनीतस्य प्रत्यक्षत्वमिति भावः। परिणामित्वादिति अनित्यधर्माश्रयत्वादित्यर्थः” इति ।
अहङ्कारात् पञ्चतन्मात्राणि एकादशेन्द्रियाणि चेति षोडशको गणः, पञ्चतन्मात्राणि-शब्द-रूप-रस-गन्ध-स्पर्शाः सूक्ष्मा उदात्तादिविशेषरहिताः, एकादशेन्द्रियाणि च चक्षुः श्रोत्रं घ्राणं रसनं त्वगिति पञ्च बुद्धीन्द्रियाणि, वाक्-पाणिपाद-पायूपस्थाः पञ्च कर्मेन्द्रियाणि, मनश्चेति, पञ्चतन्मात्रेभ्यः पञ्च महाभूतान्युत्पद्यन्ते, तथाहि-शब्दतन्मात्रादाकाशं शब्दगुणम् , शब्दतन्मात्रसहितात् स्पर्शतन्मात्राद् वायुः शब्दस्पर्शगुणः, शब्दस्पर्श-तन्मात्रसहिताद् रूपतन्मात्रात् तेजः शब्द स्पर्श-रूपगुणम् , शब्द-स्पर्श-रूप-तन्मात्रसहितात् रसतन्मात्रादापः शब्द स्पर्श-रूप-रसगुणाः, शब्द-स्पर्श-रूप-रसतन्मात्रसहिताद् गन्धतन्मात्रात् शब्दस्पर्श-रूप-रस-गन्धगुणा पृथिवीति, तदुक्तमीश्वरकृष्णेन
"प्रकृतेर्महाँस्ततोऽहङ्कारस्तस्माद् गणश्च षोडशकः । तस्मादपि षोडशकात् , पञ्चभ्यः पञ्च भूतानि ॥" [साङ्ख्यकारिका-२२] मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो, न प्रकृतिर्न विकृतिः पुरुषः॥” [साङ्ख्यकारिका-३] इति, तस्माद् गणश्च षोडशक इति पूर्वकारिकागतषोडशकपदेन पञ्चतन्मात्रैकादशेन्द्रियग्रहणम् , षोडशकस्तु विकार इति द्वितीयकारिकागतषोडशकपदेन पञ्चमहाभूतैकादशेन्द्रियग्रहणम् , मूलप्रकृतिपदेन आदिकारणप्रधानं बोध्यते, तस्य कस्यापि कार्यत्वाभावादविकृतित्वम् , महदाद्या इत्यनेन महदहङ्कार-तन्मात्राणां बोधनम् , महतोऽहङ्कारं प्रति कारणत्वेन प्रकृतित्वं प्रधानकार्यत्वेन विकृतित्वम् , अहङ्कारस्य पञ्चतन्मात्रैकादशेन्द्रियकारणत्वेन प्रकृतित्वं महत्कार्यत्वेन विकृतित्वम् , पञ्चतन्मात्राणां पञ्चमहाभूतकारणत्वेन प्रकृतित्वम् , अहङ्कारकार्यत्वेन विकृतित्वम् , पञ्चमहाभूतैकादशेन्द्रियाणां न किमपि तत्त्वान्तरं प्रति कारणत्वमिति न प्रकृतित्वम् , किन्तु पञ्चमहाभूतस्य पञ्चतन्मात्रकार्यत्वेन विकृतित्वम् , एकादशेन्द्रियाणामहङ्कारकार्यत्वेन विकृतित्वमिति विवेकः ॥ १८ ॥ २११ ॥ प्रदर्शितप्रधानमहदहङ्कारादिक्रममेव दर्शयतिप्रधानान्महती भावोऽहङ्कारस्य ततोऽपि च । अक्षतन्मात्रवर्गस्य, तन्मात्राद् भूतसंहतेः ॥ १९ ॥ २१२ ॥