________________
स्तबकः }
स्याद्वादवाटिकाटीका सङ्कलित.
2
www
अस्ति हि तत्र नरत्वं सन्निहितम् अस्ति चेन्द्रियमनसोरपि व्यापारः, अन्यथा आलोचन विकल्पयोरनुत्पादप्रसङ्ग इति तद्भिन्नोऽहङ्कारो नियतविषयाभिमानव्यापारो मन्तव्य इत्यर्थः, बुद्धितत्त्वं साधयति - नापीति - पूर्वेषां व्यापाराभावेऽपि यद्व्यापारादुच्छ्वासादि तद्बुद्वितत्त्वं कल्प्यमित्यर्थः, उपसंहरति- तद्यदिति, अवस्थासु जाग्रत्स्वप्नसुषुप्तिषु अनुभवरूपा वासना संस्कारोऽनुभववासना साङ्ख्यैस्तथाऽङ्गीकारात्, तदन्तःकरणमिति-तस्मिन्नन्तःकरणे बुद्धिरूपे अर्थो घटादिरूपारूढो ज्ञानरूपतत्परिणामविषयतया सम्बद्धः पुरुषस्यात्मन उपधानीभवति, उपधायको व्यवधायकः स्वरूपतिरोधायक इति यावत्, यत्सत्त्वासत्त्वाभ्यां पुरुषस्य संसाराऽपवर्गों व्यवहियेते इत्यर्थः तर्हि कर्ता चेतन इति कृति - चैतन्ययोः कथं सामानाधिकरण्यानुभव इत्यत आह-भेदाग्रहाच्चेति, निष्क्रिये अकर्तरि तस्मिन् बुद्धितत्त्वे, बुद्धि-पुरुषयोर्भेदाग्रहाच्चैतन्यकृत्यभिमानौ, यथा भवतां गौरोऽहं सुखीत्यर्थः, कर्मवासना कर्मजनितपूर्वम्, ननु पुरुषधर्म एव किं नापूर्वमित्यत आह पुरुषस्त्विति - नापूर्व- तत्फलाभ्यां लिप्यते कौटस्थ्यादिति श्रुतेरित्यर्थः, इन्द्रियादीनां मिथोभेदकमसाधारणं व्यापारमाह-आलोचनमिति - निर्विकल्पकमित्यर्थः । ननु बुद्धेः कृत्यध्यवसायो न व्यापारः, कृतिविषयस्य घटादेर्जडायां बुद्धौ प्रतिभासासम्भवात् न च कर्तव्येन घटादिना सम्बन्धान्तरमस्ति, न चासम्बन्धे करोमीत्यादिव्यवसायोऽतिप्रसङ्गादित्यत आह-सा हीति चेतनोपरागवशेन जडाया अपि बुद्धेरिन्द्रियप्रणालिकया परिणतिभेद एव ज्ञानरूपः कर्तव्येन घटादिना सम्बन्ध इत्यर्थः, पुरुषेति - बुद्धि-पुरुषयोर्भेदाग्रहादेकत्वाभिमानः पुरुषोपरागः, नीलेन्द्रियसन्निकर्षान्नीला कारज्ञानपरिणतिभेदोत्पादः पारमार्थिको विषयोपरागः, ताभ्यां कर्तव्य विषयस्य प्रतिभासात् तज्जन्यः करोमीत्यध्यवसायो व्यापारावेश इत्यर्थः । दर्पणस्येवेति दर्पणप्राया बुद्धिः, बुद्धितो ज्ञानोपलब्ध्योर्भेदमाह–तत्रैवमिति, विषयोपरागो विषयेन्द्रियसम्बन्धे बुद्धेर्विषयाकारः परिणतिभेदोऽयं घट इत्यादि:, तेनेति - तेन ज्ञानेन, चेतनोऽहमिदं जानामीत्येवमाकारो बुद्धावारोपितस्य चैतन्यस्य यः सम्बन्धोऽतात्त्विकः सोऽयमुपलब्धिरित्यर्थः । एवं व्यवस्थिते सिद्धमर्थमाह - तदेवमिति - ज्ञानवत् सुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मा अपि बुद्धेरेवेत्यर्थः, संस्कारस्य साङ्ख्यैरनभ्युपगमात् ज्ञानस्यैव स्मृतिहेतोरनभिव्यक्ततयाऽनुवृत्तेरिति स नोक्तः, तत्सामानाधिकरण्येनेति - कृतिसामानाधिकरण्येनेत्यर्थः, यद्यप्यदृष्टस्यायोग्यतया तत्सामानाधिकारण्यं न प्रत्यक्षं, तथापि धार्मिको
१२७