________________
१२६ शास्त्रवार्तासमुच्चयः ।
[तृतीयः धर्मादयो भावा बुद्धेरेव, तत्सामानाधिकरण्येनाध्यवसीयमानत्वात् , न च बुद्धिरेव स्वभावतश्चेतनेति युक्तम् , परिणामित्वात् , पुरुषस्य तु कूटस्थनित्यत्वादिति” इति ।
एतद्वन्थव्याख्यानं वर्धमानोपाध्यायस्य साङ्ख्याभिमतस्पष्टप्रतिपत्त्यर्थमुपदर्यते-"शिष्यहितैषितया तन्मतं प्रपञ्चयति-एवं हीति-अकारणमित्यनेन प्रकृतेभैदः, अकार्य इत्यनेन चरमपरिणतिघटादेर्भेदः, ननु बुद्ध्यायकारणत्वे तस्य तत्र मानाभाव इत्यत आह-कूटस्थेति-अकारणत्वादेव कूटस्थोऽनित्यधर्मानाश्रयः, कार्यत्वाभावान्न स्वरूपतो नाशः, अकारणत्वाञ्च कार्यकारणयोस्तादात्म्यात् तदात्मतयाऽपि न नाशः, अत एव अपूर्वं न तस्य गुणः, चैतन्यस्वरूपत्वमपि धर्मधर्मिणो. स्तादात्म्यात् कूटस्थत्वेन चैतन्येन निरूप्यत इति न तत्र मानाभाव इत्यर्थः, बुद्धिगत"
चैतन्याभिमानान्यथानुपपत्त्या तत्कल्पनादिति भावः, आत्मनोऽकारणत्वेऽपि सर्गमुपपादयति-आदीति-आदिपदात् महदादिव्यवच्छेदः, तस्य प्रकृत्यनन्तरमुत्पादात कारणमिति पुरुषव्यवच्छेदः, पुरुषाद् भेदकमाह-अचेतनेति, तत्र हेतुमाह-परिणामिनीति-अनित्यधर्माश्रयः, ततः कार्यधर्मात्मतया नश्यति, ततो घटादिवदचेतनेत्यर्थः, तत इति प्रकृतेर्महत्तत्त्वमन्तःकरणं बुद्ध्याख्यम् , प्रकृतेर्महान् , महतोऽहङ्कारस्तस्मात् पञ्चमात्राणीति साङ्ख्याः, ननु किमर्थं महदादिस! मन्तव्यो नित्यचैतन्यमेव विषयप्रकाशस्वरूपमस्त्वित्यत आह-न हीति, चितिः पुरुषचैतन्यम् , विषयबन्धनं विषयावच्छेदः, चैतन्यविषयावच्छेदस्येष्टानिष्टोपलब्धिरूपस्य हेतुसापेक्षत्वे हेतोरिन्द्रियादेरङ्गीकारापत्तिः, निरपेक्षत्वे सर्वदा तस्य भावादनिर्मोक्षः, पुंसः स्यादित्यर्थः, तर्हि प्रकृतिरेव साक्षाद्विषयबन्धनस्वभावाऽस्त्वित्यत आह-नापीति प्रकृतेः साक्षाद्विषयप्रकाशकस्वभावत्वे तस्याः सदातनत्वे पुनरप्यनिर्मोक्षः पुंसः स्यादित्यर्थः । ननु विषयस्यैव चैतन्यसम्बन्धित्वं स्वभावः, तथा च विषयनाशे पुंसो मोक्षः स्यादित्यत आह-नापीति, विषयस्य परम्परया चैतन्यसम्बन्धित्वे द्वारीभूतस्येन्द्रियादेरङ्गीकारापत्तिरिति साक्षात् तद्वाच्यम् , तथा चेदं दृष्टमिदमदृष्टमिति न स्यात् , व्यवहितस्यापि विषयस्य यावत्सत्त्वमवभासप्रसङ्गादित्यर्थः, नन्विन्द्रियमात्रद्वारा विषयस्तदीयः स्यात् किं मनःकल्पनयेत्यत आह-नापीति, व्यासङ्गेतिइन्द्रियसम्बन्धेऽपि व्यासङ्गेन दर्शनाभावादित्यर्थः, ननु व्यासङ्गानुरोधात्मनः संयुक्तेन्द्रियसम्बद्धविषयस्य चैतन्यावच्छेदकत्वमस्तु किमहङ्कारेणेत्यत आह-नापीति, यदीन्द्रियमनोभ्यामेव विषयाः सम्बध्यन्ते तदा शयानो नरो यथा वराहोऽहमिदं प्रत्येमीति अभिमन्यते तथा नरोऽहमिदं प्रत्येमीति नरत्वेनाप्याल्मोपधानं स्यात् ,