________________
१२५
www
स्तबकः]
स्याद्वादवाटिकाटीकासङ्कलितः बुद्धेः, सा हि बुद्धिरंशत्रयवती-पुरुषोपरागः, विषयोपरागः, व्यापारावेशश्चेत्यंशाः, भवति हि ममेदं कर्तव्यमिति बुद्धेरध्यवसायः, तत्र ममेति पुरुषोपरागो दर्पणस्येव मुखोपरागो भेदाग्रहादतात्त्विकः, इदमिति विषयोपराग इन्द्रियप्रणालिकया परिणतिभेदो दर्पणस्येव मुखनिश्वासहतस्य मलिनिमोपरागस्तात्त्विकः, तदुभयोपपत्तौ व्यापारावेशोऽपि, तत्र विषयोपरागलक्षणज्ञाने पुरुषोपरागस्यातात्त्विकसम्बन्धो दर्पणप्रतिबिम्बितस्येव मुखस्य तन्मलिनिम्ना, स एवोपलब्धिरित्युच्यते, ततो महत्त्वादहङ्कारोत्पत्तिः, भवति हि स्वप्नावस्थायां व्याघ्रोऽहं वराहोऽहमित्यभिमानः, न तु नरोऽहमित्यभिमानः, अस्ति च तत्र नरत्वं संनिहितमिन्द्रियमनःसम्बन्धश्च, अतो नियतविषयाभिमानव्यापारकाहङ्कारसिद्धिरित्येवं प्रकृति-बुद्ध्यहङ्काराणां सिद्धिः साङ्ख्याभिमता श्रीमद्भिर्यशोविजयोपाध्यायैरुपदर्शिता । ___ उदयनाचारित्थमेवावेदिता, तथा च तद्न्थः - “एवं हि तद् अकारणमकार्यः कूटस्थचैतन्यस्वरूपः पुरुषः, आदिकारणं प्रकृतिरचेतना परिणामिनी, ततो महदादिसर्गः, न हि चितिरेव विषयबन्धनस्वभावा, अनिर्मोक्षप्रसङ्गात् , नापि प्रकृतिरेव तदीयस्वभावा,.तथापि नित्यत्वेनानिर्मोक्षप्रसङ्गात् , नापि घटादिरेवाऽऽहत्य तदीयः, दृष्टादृष्टत्वादुपपत्तेः, नापीन्द्रियमात्रप्रणालिकया, व्यासङ्गायोगात् , नापीन्द्रियमनोद्वारा, स्वप्नदशायां व्याघ्र-वराहाद्यभिमानिनो नरस्यापि नरत्वेनात्मोपधानायोगात् , नाप्यहङ्कारपर्यन्तव्यापारेण, सुषुप्त्यवस्थायां तद्व्यापारविरमेऽपि श्वासप्रयत्नसन्तानावस्थानात् , तद् यदेतास्ववस्थासु सव्यापारमेकमनुवर्तते, यदाश्रया चानुभववासना, तदन्तःकरणमुपारुढोऽर्थः पुरुषस्योपधानीभवति, भेदाग्रहाच्च निष्क्रियेऽपि तस्मिन् पुरुष कर्तृत्वाभिमानः, तस्मिन्नचेतनेऽपि चेतनाभिमानः, तत्रैव कर्मवासना, पुरुषस्तु पुष्करपलाशवनिर्लेपः, आलोचनं व्यापार इन्द्रियाणाम् , विकल्पस्तु मनसः, अभिमानोऽहङ्कारस्य, कृत्यध्यवसायो बुद्धेः, सा हि बुद्धिरंशत्रयवती, पुरुषोपरागो विषयोपरागो व्यापारावेशश्चेत्यंशाः, भवति हि मयेदं कर्तव्यमिति, तत्र ममेति चेतनोपरागो दर्पणस्येव मुखोपरागो भेदाग्रहादतात्त्विकः, इदमिति विषयोपराग इन्द्रियप्रणालिकया परिणतिभेदो दर्पणस्येव निःश्वासाभिहतस्य मलिनिमा पारमार्थिकः, एतदुभयायत्तो व्यापारावेशोऽपि, तत्रैवंरूपव्यापारलक्षणाया बुद्धेविषयोपरागलक्षणं ज्ञानं, तेन सह यः पुरुषोपरागस्यातात्विकस्य सम्बन्धो दर्पणप्रतिबिम्बितस्य मुखस्येव मलिनिमा सोपलब्धिरिति, तदेवमष्टावपि