Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 211
________________ १५६ शास्त्रवार्तासमुच्चयः । [तृतीयः नैयायिकानां, योगिषु कायव्यूहोऽपि-कायव्यूहाभ्युपगमोऽपि निरस्तः, नहि परिच्छिन्नस्यात्मनो देहान्तरसञ्चारो जन्मपदार्थः, परिष्यते, किन्त्ववस्थितस्यैव देहान्तरसम्बन्धः, तथा च योगिनामेकदा नानाकर्मफलोपभोगाय तुरङ्ग-कुरङ्गविहङ्ग-मतङ्गज-शम्बर-घूक-किरात-शृगाल-बिडालादिशरीरपरिग्रहाभ्युपगमे एकत्र भवे भवसहस्रसङ्करस्य दुर्वारत्वात् , किञ्चैवं नरकादिदुःखजनकब्रह्महत्यादिप्रयोजका. दृष्टसत्त्वे योगिनां नारकब्रह्मघातकशरीरपरिग्रहोऽपि स्यादिति महद् वैशसम् ; तादृशादृष्टविरह एव तत्त्वज्ञानोत्पत्तिरिति चेत् ?, शूकरादिशरीरोत्पादकादृष्टासत्त्व एव तत्त्वज्ञानोत्पत्तिरित्यपि किमिति न रोचयेः । तत्त्वज्ञानजन्यशूकरादिवैलक्षण्यानायं दोष इति चेत् ?, तर्हि तत्त्वज्ञानादृष्टजन्यतावच्छेदिकयोः साङ्कर्यम् , कथं च तत्त्वज्ञानेन कायव्यूहजननेऽप्यनन्तकालपरिसमाप्यक्रमिकशूकरादिशरीरोपभोग्य-" नानाफलजननम् , कथं च तद्विना शूकरादिशरीरोपभोग्यचरमफलं विनाऽदृष्टनाशः? कथं च तमन्तरेण मोक्षोत्पत्तिरिति विचारणीयमायुष्मता; शूकरादिशरीररोपभोगमप्यदृष्टफलं योगिनां स्वायुर्निमित्तमेव तत् कल्प्यत इति चेत् ?, तर्हि लाघवात् तदनुपभोग्यमेव, तच्च भवोपग्राह्यादृष्टचतुष्टयाख्यम्, तत्राप्यनुभवः कर्मत्रयस्याधिकस्थितिकत्वे तत्समीकरणाथ भगवतः केवलिसमुद्घातारम्भः, आयुस्तु कर्मत्रयादधिकस्थितिकं स्वभावादेव न भवति, केवलिसमुद्घात एव च परेषां कायव्यूहभ्रमः, तदालम्बनेनैव चेश्वरस्य सर्वावेशप्रतिपादिका श्रुतिरिति युक्तं पश्यामः ॥ तथा आत्मा यदि न क्रियामुपगतोऽक्रिय एवेत्यर्थः, तदा प्रागेव-शरीरोत्पत्तेरादावेव, काययोगः-कायोत्पत्त्यनुकूलः प्रयत्नः, को न-कश्चिदेव, तच्छरीरजन्यस्य तदात्मविशेषगुणस्य तदभावेऽभावात् ,तथा चादृष्टाकृष्टानामपि परमाणूनामाहारतया ग्रहणस्य शरीरतया परिणमनस्य चाभावे आदित एव शरीरानुत्पत्तौ संसारोच्छेदः, न च शरीरोत्पत्तावदृष्टमेव हेतुन तु यत्न इति वाच्यम् , शरीरोत्पत्त्यनन्तरमप्याहारादिपरिणामस्य श्वासप्रश्वासादिसन्तानस्य च तत एवोत्पत्तौ जीवनयोनियनोच्छेदापत्तेः, तथा च स्वापादौ शरीरेऽपि प्रयत्नासमवायिकारणकक्रियाऽभावान्निश्चेष्टत्वं स्यात् , अदृष्टजन्यक्रिया च वयूद्धज्वलनादिनाऽतिप्रसङ्गिनी, सम्बन्धविशेषस्त्वदृष्टस्य कायेन सहान्योऽन्यानुगमाख्यः पुद्गलात्मकत्व एव घटते, बन्धननामकर्मप्रयुक्तत्वात् : प्रवृत्तिरूपोऽपि प्रयत्न आत्मप्रदेशपरिस्पन्दान्नातिरिच्यते, सविषयकत्वं च तस्य ज्ञानोपाधिकमन्यथा वेत्यन्यदेतत् , आकाशादिव्यावृत्तोऽन्योऽन्यानुप्रवेशरूपः शरीरसंयोग एव चात्मनि क्रियामनुमापयति, तस्योभयकर्मजत्वात् , विशिष्ट

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262