Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 204
________________ स्तबकः ] स्याद्वादवाटिकाटीका सङ्कलितः चाकाशे न घटेनानुग्रहोपघाताविति न चात्मनः शरीरसमानमानत्वतोऽविभुत्वे सर्वमिदमुपपद्यते, शरीरसमानमानत्वमेव तु तस्य नाद्यापि सिद्धमिति चेत् ? न'आत्मा शरीरनियतपरिणामवान्, शरीरमात्रावच्छेदेनोपलभ्यमानज्ञानादिगुणववात्, यो यत्र दृष्टगुणः स तन्मानकः, यथा कपालद्वयोपलभ्यमानगुणको घटः कपालद्वयमानसमानमानकः' इत्यनुमानसिद्धेन शरीरपरिमाणसमानपरिमाणवत्त्वेनात्मनोऽविभुत्वस्य सिद्धेः; नन्वपकृष्टपरिमाणवत्त्वलक्षणमूर्तत्वस्योक्तानुमानतः सिद्धौ तत्र मूर्तत्वसंशयः स स्यादिति चेत् ? न - अप्रामाण्यज्ञानानास्कन्दितस्यैव तद्विशेष्यकतत्प्रकारकनिश्चयस्य तद्विशेष्यकतत्प्रकारकसंशयविरोधित्वेन निरुक्तात्मविशेष्यकमूर्तत्वप्रकारकग्रहेऽप्रामाण्यज्ञाने सति अप्रामाण्यज्ञानानास्कन्दितस्य मूर्तत्वनिश्चयस्य प्रतिबन्धकस्याभावात् तत्र मूर्तत्वसंशयस्योपपत्तेः न च आत्मनस्तावत् महत्परिमाणवत्त्वमवश्यमभ्युपेयम्, प्रत्यक्षत्वावच्छिन्नं प्रति क्लृप्तकारणभावस्य महत्त्वस्य द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन प्रत्यक्ष प्रति समवायसम्बन्धेन महत्त्वं कारणमिति विशिष्य द्रव्यप्रत्यक्षत्वावच्छिन्न कारणभावस्याहं सुख्यहं दुःखीत्यादिलौकिकप्रत्यक्षविषय आत्मनि सिद्धाववयवमहत्त्वाऽवयवबहुत्वाऽवयवप्रचयान्यतमाजन्यत्वेन नित्यतया आत्मा विभुर्नित्यमहत्त्वादाकाशवदित्यनुमानात् तस्य विभुत्वमेव युक्तमिति वाच्यम्, नित्य महत्त्वेऽप्यपकृष्टपरिमाणवत्त्वे बाधकाभावेनात्मनि नित्यमहत्त्वमस्तु विभुत्वं माऽस्त्विति व्यभिचारशङ्कानिवर्तकतर्काभावेनाप्रयोजकत्वात् ; ननु गगनमहत्त्वावधिकापकर्षस्य बहुत्वजन्यतावच्छेदकतयाऽऽत्ममहत्त्वस्यापकृष्टत्वे तदाक्रान्तत्वेन जन्यत्वापत्तिरेव बाधिकेति चेत् ? नगगन महत्त्वाधिकापकर्षस्य नित्ये परमाणुपरिणामे बहुत्वाजन्येऽपि सत्तयाऽतिप्रसतत्वेन बहुत्वजन्यताया अनवच्छेदकत्वात् ; न च गगनमहत्त्वावधिकाऽपकर्षोऽणुपरिणामावृत्तिरेव त्र्यणुकादिपरिमाणवृत्तिर्जातिविशेषो बहुत्वजन्यताया अनतिप्रसतत्वादवच्छेदक इति वाच्यम्, तथाऽभ्युपगमे विनिगमनाविरहेण त्रुटि महत्त्वावधिकोत्कर्षस्यापि गगनपरिमाणपर्यन्तमहत्त्वत्वृत्तितयाऽभ्युपगन्तुं शक्यत्वेन तदभाववति त्रुटिमहत्त्वे गगनमहत्त्वावधिकापकर्षस्य सत्त्वं, गगनमहत्त्वावधिकापकर्षाभाववति गगनमहत्त्वादौ त्रुटिमहत्त्वावधिकोत्कर्षस्य सत्त्वमित्येवं परस्परात्यन्ताभावसामानाधिकरण्यं घटत्व - महत्त्वादौ च गगनमहत्त्वावधिकापकर्ष- त्रुटिमहत्त्वावधि - कोत्कर्षयोरुभयोरपि सत्त्वमित्येकाधिकरण्यं चेति गगनमहत्त्वावधिकापकर्षस्य त्रुटिमहत्त्वाधिकोत्कर्षेण समं साङ्कर्येण जातिरूपस्य तस्यासिद्ध्या बहुत्वजन्यतावच्छेद १४९

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262