Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः
१४५ न याति नैवाश्रयति, आकाशादेरमूर्तस्य रूपादिमत्परिणतेः कदाप्यदर्शनात् , एवं मूर्त रूपादिमत्, अमूर्ततां रूपादिरहितपरिणतिरूपताम् , न नैव, आयाति प्राप्नोति, अत्र न यातीति पाठो हरिभद्रसूरिसम्मतः, परमाण्वादिषु मूर्तेषु अमूर्तपरिणतिभावासिद्धेः, यतः यस्मात् कारणादेवस्वरूपविपरिणामो न भवति, अतः अस्मात् , न्यायात् नियमात्, आत्मनः पुरुषस्य रूपादिरहितस्वरूपस्य, वन्धादि ज्ञानावरणादिपरिपाकलक्षणकर्मपरिणतिसम्बन्धादि, तया कर्मलक्षणप्रकृत्या, असङ्गतं अघटमानम् ॥ ४१ ॥ २३४ ॥ अत्रोत्तरमुपदर्शयतिदेहस्पर्शादिसंवित्त्या, न यात्यवेत्ययुक्तिमत् । अन्योन्यव्याप्तिजा चेयमिति बन्धादि सङ्गतम् ॥४२॥२३५॥ देहस्पर्शादिसंवित्त्येति-देहे स्पर्श:-कण्टकादिसंयोगः, अनेन उपघातहेतूपनिपातान्युपलक्षितानि, आदिपदेनानुग्रहहेतूपनिपातपरिग्रहः, तेषां संवित्त्यातजनितसुखदुःखाद्यनुभवेनेत्यर्थः, अमूर्त मूर्ततां यातीति प्राक्तनानुषङ्गः, यतश्चामूर्तमपि मूर्ततां याति ततः, न यात्येव "अमूर्त मूर्तताम्" इत्यनुषङ्गप्राप्तस्यात्रापि सम्बन्धः, तथा च देहस्य सुखदुःखादिमत्त्वं तदनुभवश्च नास्ति, भवति च तथाऽनुभवोऽतोऽन्योऽन्यानुप्रवेशलक्षणसम्बन्धात् कथञ्चिद् देहादिरूप आत्मा देहस्पर्शादिना सुखदुःखादिमान् भवति तदनुभववांश्च भवति, अनयैव चामूर्तस्यात्मनः कथञ्चिन्मूर्तत्वप्राप्तिसङ्गतत्वसाधिकयाऽमूर्त मूर्ततां न यात्येव, इति एतत् , अयुक्तिमत् अनुभवबाधितम् , यथा च घटादिसंवित्तिरात्मनो घटादिमयत्वाभावेऽप्युपपद्यते तथा देहस्पर्शादिसंवित्तिदेहादिमयत्वाभावेऽप्युपपत्स्यते, नातोऽमूर्तस्यात्मनो रूपादिमत्परिणत्याश्रयणेन कृत्यमित्यत आह-अन्योऽन्यव्याप्तिजेति-शरीरात्मनोरन्योऽन्यानुप्रवेशजन्यजात्यन्तरतापत्तिप्रभवेत्यर्थः, इयं च देहस्पर्शादिसंवित्तिश्च, यथा च गुड-शुण्ठीद्रव्ययोरन्योऽन्यविलक्षणसंसर्गलक्षणान्योऽन्यव्याप्तिप्रयुक्तजात्यन्तरतापत्तिप्रभवा, कफ-पित्तविकारापहारकत्वं प्रत्येकमेकैकस्य कफ-पित्तविकारकारकत्वेऽपि तथा केवलस्य शरीरस्य, केवलस्य चात्मनः सुखदुःखानुभूत्यभावेऽपिअन्योऽन्यानुप्रवेशप्रभवजात्यन्तरतामापन्नयोः शरीरात्मनोमूर्ताऽमूर्तस्वभावसंवलितयोः सुख-दुःखानुभूतियुज्यत इति यत एव क्षीर-नीरयोरिव प्रत्यवयवं शरीरस्यात्मनः प्रदेशानामनुस्यूतत्वेन सुख-दुःखानुभवस्यानुग्रहहेतूपनिपातोपघातहेतूपनिपाततो दर्शनात् , अन्योऽन्यानुप्रवेशतो जात्यन्तरतामापन्नस्यैव
१० शास्त्र.स.द्वि०

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262