Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
स्तबकः ]
स्याद्वादवाटिकाटीका सङ्कलितः
मोक्ष इति । यत् यस्माद्धेतोः, साङ्ख्यमते प्रकृत्ययोगः प्रकृतिसम्बन्धाभावः, मोक्षः सम्मतः “प्रकृतिवियोगो मोक्षः” इति वचनात्, अतः अस्मात् कारणात्, अस्याः प्रकृतेः, स मोक्षः, कथं भवेत् ? कथमपि न स्यात्, निरुक्तलक्षणमोक्षः प्रकृतेर्न सम्भवतीत्यत्र हेतुमुपदर्शयति-स्वरूप विगमापत्तेरिति - प्रकृतिस्वरूपनिवृत्तिप्रसङ्गात्, प्रकृतेर्नित्यायाः सर्वदा भावे स्वतादात्म्यलक्षणस्य स्वसम्बन्धस्यापि भावेन तदभावलक्षणवियोगो न स्यादेवेति तदुपपत्तये यद्रूपेण प्रकृतिः पूर्वमासीत् तद्रूपं विहाय रूपान्तरेण सा तदानीं जातेति यदि स्वीक्रियेत एवं सति स्वरूपविगमापत्तिरवश्यम्भाविनीति, पुरुषस्य मोक्षाभ्युपगमे तु तत्र प्रकृतिव्यापारनिवृत्तिद्वारा प्रकृतिसम्बन्धनिवृत्तिर्युज्येतापि, स्वस्मिन् स्वनिवृत्तिस्तु घटादावपि न दृश्यते, स्वतादात्म्यमेव स्वस्मिन् सम्बन्धः, तदभावः स्वभावे सत्येव स्यादिति न तस्य तत्र सम्भवः, स्वस्मिन् स्वस्य सम्बन्धान्तरं तु प्रसक्तमेवेति न तस्य निषेधोsप्रसक्तस्याप्रतिषेधात्, तथा एवं, तन्त्रविरोधतः स्वदर्शनविरोधतः प्रकृतेर्मोक्षो न संभवतीति ॥ ३६ ॥ २२९ ॥
१४१
तन्त्रविरोधमेवोपदर्शयन्नाह
पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे रतः ।
जटी मुण्डी शिखी वाsपि, मुच्यते नात्र संशयः ||३७||२३०|| पञ्चविंशतितत्त्वज्ञ इति - साङ्ख्यदर्शनाभिमतप्रकृतिमहदादिपञ्चविंशतितत्त्वरहस्यवेत्तेत्यर्थः, यत्र तत्र यस्मिन् कस्मिन्नपि, आश्रमे ब्रह्मचर्य - गृहस्थ- वानप्रस्थसंन्यासाश्रमे, रतः तत्त्वज्ञानैकाभ्यसनशीलः, जटी जटावान्, ब्रह्मचारीति यावत्, अर्नेन ब्रह्मचर्याश्रमस्थितो दर्शितः, मुण्डी मुण्डितशिराः, अनेन संन्यासाश्रमस्थितो दर्शितः, शिखी वाऽपि अनेन वानप्रस्थ- - गार्हस्थ्याश्रमिणोरुपदर्शनम्, मुच्यते प्रकृति-विकारोपधानविलयेन केवलचैतन्यस्वरूपावस्थितो भवति, जटी - त्यादिना बाह्यलिङ्गं न मुक्तौ कारणमिति भावितम्, नात्र संशयः यत्र तत्राश्रमरतोऽपि पञ्चविंशतितत्त्वज्ञो मुक्तो भवत्येव वचनप्रामाण्यात् ॥ ३७ ॥ २३० ॥ एतावता कथं स्वसिद्धान्तविरोधः साङ्ख्यस्येत्यपेक्षायां निगमयतिपुरुषस्योदिता मुक्तिरिति तत्रे चिरन्तनैः ।
इत्थं न घटते चेयमिति सर्वमयुक्तिमत् ॥ ३८ ॥ २३१ ॥ पुरुषस्येति, इति उक्तस्वरूपे, तन्त्रे साङ्ख्यदर्शने, चिरन्तनैः प्राचीनैः,

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262