Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 181
________________ १२६ शास्त्रवार्तासमुच्चयः । [तृतीयः धर्मादयो भावा बुद्धेरेव, तत्सामानाधिकरण्येनाध्यवसीयमानत्वात् , न च बुद्धिरेव स्वभावतश्चेतनेति युक्तम् , परिणामित्वात् , पुरुषस्य तु कूटस्थनित्यत्वादिति” इति । एतद्वन्थव्याख्यानं वर्धमानोपाध्यायस्य साङ्ख्याभिमतस्पष्टप्रतिपत्त्यर्थमुपदर्यते-"शिष्यहितैषितया तन्मतं प्रपञ्चयति-एवं हीति-अकारणमित्यनेन प्रकृतेभैदः, अकार्य इत्यनेन चरमपरिणतिघटादेर्भेदः, ननु बुद्ध्यायकारणत्वे तस्य तत्र मानाभाव इत्यत आह-कूटस्थेति-अकारणत्वादेव कूटस्थोऽनित्यधर्मानाश्रयः, कार्यत्वाभावान्न स्वरूपतो नाशः, अकारणत्वाञ्च कार्यकारणयोस्तादात्म्यात् तदात्मतयाऽपि न नाशः, अत एव अपूर्वं न तस्य गुणः, चैतन्यस्वरूपत्वमपि धर्मधर्मिणो. स्तादात्म्यात् कूटस्थत्वेन चैतन्येन निरूप्यत इति न तत्र मानाभाव इत्यर्थः, बुद्धिगत" चैतन्याभिमानान्यथानुपपत्त्या तत्कल्पनादिति भावः, आत्मनोऽकारणत्वेऽपि सर्गमुपपादयति-आदीति-आदिपदात् महदादिव्यवच्छेदः, तस्य प्रकृत्यनन्तरमुत्पादात कारणमिति पुरुषव्यवच्छेदः, पुरुषाद् भेदकमाह-अचेतनेति, तत्र हेतुमाह-परिणामिनीति-अनित्यधर्माश्रयः, ततः कार्यधर्मात्मतया नश्यति, ततो घटादिवदचेतनेत्यर्थः, तत इति प्रकृतेर्महत्तत्त्वमन्तःकरणं बुद्ध्याख्यम् , प्रकृतेर्महान् , महतोऽहङ्कारस्तस्मात् पञ्चमात्राणीति साङ्ख्याः, ननु किमर्थं महदादिस! मन्तव्यो नित्यचैतन्यमेव विषयप्रकाशस्वरूपमस्त्वित्यत आह-न हीति, चितिः पुरुषचैतन्यम् , विषयबन्धनं विषयावच्छेदः, चैतन्यविषयावच्छेदस्येष्टानिष्टोपलब्धिरूपस्य हेतुसापेक्षत्वे हेतोरिन्द्रियादेरङ्गीकारापत्तिः, निरपेक्षत्वे सर्वदा तस्य भावादनिर्मोक्षः, पुंसः स्यादित्यर्थः, तर्हि प्रकृतिरेव साक्षाद्विषयबन्धनस्वभावाऽस्त्वित्यत आह-नापीति प्रकृतेः साक्षाद्विषयप्रकाशकस्वभावत्वे तस्याः सदातनत्वे पुनरप्यनिर्मोक्षः पुंसः स्यादित्यर्थः । ननु विषयस्यैव चैतन्यसम्बन्धित्वं स्वभावः, तथा च विषयनाशे पुंसो मोक्षः स्यादित्यत आह-नापीति, विषयस्य परम्परया चैतन्यसम्बन्धित्वे द्वारीभूतस्येन्द्रियादेरङ्गीकारापत्तिरिति साक्षात् तद्वाच्यम् , तथा चेदं दृष्टमिदमदृष्टमिति न स्यात् , व्यवहितस्यापि विषयस्य यावत्सत्त्वमवभासप्रसङ्गादित्यर्थः, नन्विन्द्रियमात्रद्वारा विषयस्तदीयः स्यात् किं मनःकल्पनयेत्यत आह-नापीति, व्यासङ्गेतिइन्द्रियसम्बन्धेऽपि व्यासङ्गेन दर्शनाभावादित्यर्थः, ननु व्यासङ्गानुरोधात्मनः संयुक्तेन्द्रियसम्बद्धविषयस्य चैतन्यावच्छेदकत्वमस्तु किमहङ्कारेणेत्यत आह-नापीति, यदीन्द्रियमनोभ्यामेव विषयाः सम्बध्यन्ते तदा शयानो नरो यथा वराहोऽहमिदं प्रत्येमीति अभिमन्यते तथा नरोऽहमिदं प्रत्येमीति नरत्वेनाप्याल्मोपधानं स्यात् ,

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262