Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
स्तबकः ] - स्याद्वादवाटिकाटीकासङ्कलितः .. महदादिजननस्वभावत्वमेव नान्यदिति महदादिजननस्वभावत्वलक्षणप्रधानत्वव्यतिरिक्तस्वभावव्यवच्छेद इति, तथा च महदादिजननस्वभावत्वलक्षणप्रधानत्वाप्रच्युतावपि महदाद्युत्पत्तिः, इति चेत? एवं परो मन्यते चेत्, तदा सर्वदा किं न महदादिकं सर्वदा किं न भवति, सन्निधानमात्रेण महदादिजननस्वभावस्य प्रधानस्य सर्वदा सत्त्वात् , जगजननस्वभावस्य प्रधानस्य सन्निधानेनैकदैव जगत् स्यात् , समर्थस्य कार्यकरणविलम्बायोगादित्याशयः, पर आह-अत एवेति-सर्वदा प्रधानं महदादिकं न जनयतीति कदाचित्तजननस्वभावादर्थतः प्राप्तादेवेत्यर्थः, तथा च न सर्वदोत्पत्तिप्रसङ्गः, तथा स्वभावाभावादित्याशयः, वाद्याह-इति चेदिति-एवं त्वं मन्यसे यदीत्यर्थः, ननु इत्याक्षेपे, तस्य प्रधानस्य तथात्वे नियतस्वरूपाविकृतत्वे, तत् कदाचिजननस्वभावत्वं, कुतः कस्माद् भवेत् ? न कुतश्चिदपीत्यर्थः, एकरूपा हि प्रकृतिर्यदि महदादिजननस्वभावा तदा सदैव महदादि जनयेत् , यदि न महदादिजननस्वभावा कदापि महदादि न जनयेत् , यत्काले महदादिजननं तत्कालावच्छिन्नजनननिरूपितत्वं, यत्काले जननं न भवति तत्कालावच्छिन्नाजनननिरूपितत्वमेकस्मिन् स्वभावे उपगम्य तत्तत्कालावच्छिन्नजननाजननोभयनिरूपितकस्वभावत्वं प्रधानस्येति ततः कदाचिन्महदादिजननं कदाचित् तदजननमित्युभयमपि सम्भवतीति चेत् ? जननाजननयोस्तत्तत्कालावच्छिन्नत्वे सिद्ध सति प्रधानस्य तत्तत्कालावच्छिन्नजननाजननोभयनिरूपितैकस्वभावत्वं सिध्यति. निरुक्तस्वभावत्वसिद्धौ च जननाजननयोस्तत्तत्कालावच्छिन्नत्वसिद्धिरित्यन्योऽन्याश्रयः, जननाजननयोः स्वस्वभावादेव तत्तत्कालावच्छिन्नत्वे च किमिति प्रकृत्यादिप्रक्रियाकल्पनाक्लेशेन? कारणमन्तेरणैव तत्तत्काले प्रतिनियततत्तत्कार्यसम्भवेन स्वभाववादस्यैव साम्राज्यादित्याशयः ॥ २३ ॥ २१६ ॥ एकान्तनित्यप्रधानाकरणे युक्त्यन्तरमुपढौकतेनानुपादानमन्यस्य, भावेऽन्यज्जातुचिद् भवेत् । तदुपादानतायां च, न तस्यैकान्तनित्यता ॥ २४ ॥ २१७ ॥ नानुपादानमिति-नजो भवेदिति क्रियया सम्बन्धः, अनुपादानं उपादानकारणरहितम्, अन्यस्य सर्वथोपादेयमहदादिव्यतिरिक्तस्य प्रधानस्य, भावे सन्निधाने, अन्यत् प्रधानाद् भिन्नमेकान्ताविद्यमानं महदादि, जातुचित् कदाचिदपि, न नैव, भवेत् जायेत, सर्वथाऽसतः सत्त्वासम्भवात् , च पुनः,

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262