Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 187
________________ शास्त्रवार्तासमुच्चयः । [तृतीयः तदुपादानतायां महदादेः प्रधानात्मकोपादानसहिततायामभ्युपगम्यमानायां, न नैव, तस्य प्रधानस्य, एकान्तनित्यता अप्रच्युतानुत्पन्नस्थिरैकरूपता, अनित्यमहदाधुपादेयाभिन्नत्वेन महदादिनाशे तन्नाशभावात् ; ननु महदादेरनित्यत्वे तदभिन्नत्वात् प्रधानस्यानित्यत्वं भवेत् , तदेव तु न महदादेरपि नित्यतयैवाभ्युपगमादिति चेत् ? तर्हि प्रकृति-महदाद्योर्नित्ययोः परस्परानपेक्षसत्त्वतः प्रकृतिविकृतिभाव एव न भवेदिति प्रकृतिविकृतिप्रक्रिया भन्ना, नित्यत्वेन महदादेर्मुक्तावपि सत्त्वे तत्सत्त्वासत्त्वाभ्यां पुरुषस्य संसारापवर्गावित्यस्तमुपगच्छेत् ; महदादेः प्रकृतिपरिणामत्वेन प्रकृत्यभिन्नत्वेऽप्यनित्यत्वादिना भेद एवेति चेत् ? तर्हि भेदाभेदलक्षणानेकान्तवादाभ्युपगन्तृत्वेनैकान्तवादित्वभङ्गः प्रसज्येतेति ॥ २४ ॥ २१७ ॥ . स्थूलमपि सकर्तृकं न तूपादानैककारणकमिति प्रतिपादयतिघटाद्यपि कुलालादिसापेक्षं दृश्यते भवत् । अतो न तत् पृथिव्यादिपरिणामैकहेतुकम् ॥ २५ ॥ २१८ ॥ घटाद्यपीति-आदिपदात् पटादिस्थूलकार्याणामुपग्रहः, कुलालादिसापेक्षमिति-अत्रादिपदात् तन्तुवायाधुपग्रहः, तथा च स्थूलकार्यजातं कर्तृसापेक्षमित्यर्थः, भवत् जायमानं, दृश्यते प्रत्यक्षप्रमाणेनोपलभ्यते, तथा च कुलालादिसत्त्वे घटादिसत्त्वम् , कुलालाद्यभावे घटाद्यभाव इत्यन्वयव्यतिरेकानुविधानदर्शनेन घटादीनां कुलालादिकर्तृकत्वावधारणात् , अतः अस्मात् कारणात् , तत् स्थूलकार्यजातम् , पृथिव्यादिपरिणामैकहेतुकं पृथिव्यादिपरिणामिमात्रकारणप्रभवम् , न न भवति, पृथिव्यादिपरिणामिकारणानामपि घटादीन् प्रति नियतान्वयव्यतिरेको विना न कारणत्वग्रहः, नियतान्वयव्यतिरेकौ च घटादीन् प्रति कुलालादीनामपि स्त इति तेषामपि कारणत्वावधारणात् ; कार्यगतयावद्धर्मानुविधायित्वं परिणामिकारणस्यैवेति तदेव कारणं, कुलालादीनां घटादिगतयावद्धर्मानुविधायित्वाभावान्न कारणत्वमिति चेत् ?, तर्हि महत्तत्त्वगता रागादयोऽपि प्रकृतौ स्वीकर्तव्याः, अन्यथा तस्या अपि महत्तत्त्वलक्षणकार्यगतयावद्धर्मानुविधायित्वाभावात् कारणत्वं न स्यात्, तथा च भावाष्टकवत्त्वात् प्रकृतिरेव बुद्धिः, न तु प्रकृतिः, ननु प्रकृतौ रागादयः सूक्ष्मरूपतया सन्ति, बुद्धौ तु स्थूलरूपतया ते सन्तीत्येवं प्रकृति-बुद्ध्योर्भेद इति चेत् ?, तर्हि लयाद्यवस्थायां बुद्धेः सूक्ष्मरूपतयाऽवस्थानात् तदानीं तत्र रागादयोऽपि सूक्ष्मरूपतयाऽवस्थिता इति बुद्धिरेव प्रकृतिस्तथाऽप्यनुषज्यते, यथा च

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262