Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 178
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः __१२३ सद्भावे हि प्रकृतिः कारणं ततो महदादि कार्यमित्येवं कारणकार्यविभागो घटते, महदादौ कार्यत्वव्यवहारस्य सम्बन्धिसापेक्षत्वात् , न च स्यात् क्षीरावस्थायां क्षीरं दन इव प्रलये भूतादीनां तन्मात्रादिक्रमेण विवेकरूपो विभाग इति प्रकृतिसिद्धिः, तदुक्तमीश्वरकृष्णेन "भेदानां परिमाणात् , समन्वयाच्छक्तितः प्रवृत्तेश्च ।। कारणकार्यविभागादविभागाद् वैश्वरूपस्य ॥" [सांख्यकारिका-१५] इति, न चोत्पत्तितः प्राग् असदेव महदादिकमुत्पद्यतां किं तत्समन्वयार्थ प्रकृत्यनुसरणेन ? इति वाच्यम्, शशशृङ्गादेरिवोत्पत्तितः प्राक् तत्कल्पस्य महादादेरुत्पत्त्यसम्भवात् , तदुक्तं तेनैव"असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत् कार्यम् ॥” [सांख्यकारिका-९] इति, असतः शशविषाणादेः सत्त्वस्य कर्तुमशक्यत्वात् , सत एव हि सत्कारणं, सत्करणस्वभावत्वात् सतः, दृश्यते च तिलेषु सत एव तैलस्य निष्पीडनेन करणम् , असतस्तु करणे न निदर्शनं किञ्चित् ; ननूत्पत्तेः प्राक् कार्यस्यासत्त्वं नाम विद्यमानप्रागभावप्रतियोगित्वं, तच्च अत्यन्तासति शशशृङ्गादौ नास्ति, उत्पत्त्यनन्तरं विद्यमाने घटादौ विद्यमानत्वरूपसत्त्वमप्यस्ति, उत्पत्तितः प्राक् कपालादौ विद्यमानस्य प्रागभावस्य प्रतियोगित्वरूपमसत्त्वमप्यस्तीत्येवं निरुक्तसत्त्वासत्त्वयोर्न विरोध इति वाच्यम् , यथाहि सन्मात्रानुगामित्वाद् विद्यमानत्वमेव सत्त्वं तथाऽसन्मात्रानुगामित्वादविद्यमानत्वमेव लाघवादसत्त्वम् , असद्वयवहारस्य तत एवासन्मात्रे भावात् , एवं च असदकारणान्नोत्पत्तेः प्राक्कार्यस्यासत्त्वं किन्तु उत्पत्तेः प्राक् सदेव कार्यम् ; तथा उपादानग्रहणादपि सत्कार्यम् , शालिफलार्थी शालिबीजमेवोपादत्ते यवफलार्थी यवबीजमेवोपादत्ते इत्येवं प्रतिनियतोपादानस्य कार्यस्य सत्त्व एवोपपत्तेः, असत उत्पत्तौ तु शालिफलं यथा कोद्रवादिबीजेऽसत् तथा शालिबीजेऽपीति तदर्थं कोद्रवादिबीजस्याप्युपादानं स्यात् , फलायोगस्योभयत्राविशेषात् ; "उपादानेन ग्रहणं सम्बन्धस्ततोऽसतः सम्बन्धाभावात्" इत्येवमुपादानग्रहणादित्यस्याभिप्रेतमन्ये वर्णयन्ति; तथा सर्वसम्भवाभावात् सत् कार्यम् , असतः करणेऽसत्त्वाविशेषे सर्व सर्वस्माद् भवेत् , न च सर्वं सर्वस्मादुपजायते, तस्मात् कार्य प्रागुत्पत्तेः कारणेन सह सम्बद्धमेव तद्वयापारात् प्रादुर्भवतीति तदाहुः

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262