________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः __१२३ सद्भावे हि प्रकृतिः कारणं ततो महदादि कार्यमित्येवं कारणकार्यविभागो घटते, महदादौ कार्यत्वव्यवहारस्य सम्बन्धिसापेक्षत्वात् , न च स्यात् क्षीरावस्थायां क्षीरं दन इव प्रलये भूतादीनां तन्मात्रादिक्रमेण विवेकरूपो विभाग इति प्रकृतिसिद्धिः, तदुक्तमीश्वरकृष्णेन
"भेदानां परिमाणात् , समन्वयाच्छक्तितः प्रवृत्तेश्च ।।
कारणकार्यविभागादविभागाद् वैश्वरूपस्य ॥" [सांख्यकारिका-१५] इति, न चोत्पत्तितः प्राग् असदेव महदादिकमुत्पद्यतां किं तत्समन्वयार्थ प्रकृत्यनुसरणेन ? इति वाच्यम्, शशशृङ्गादेरिवोत्पत्तितः प्राक् तत्कल्पस्य महादादेरुत्पत्त्यसम्भवात् , तदुक्तं तेनैव"असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत् कार्यम् ॥” [सांख्यकारिका-९] इति,
असतः शशविषाणादेः सत्त्वस्य कर्तुमशक्यत्वात् , सत एव हि सत्कारणं, सत्करणस्वभावत्वात् सतः, दृश्यते च तिलेषु सत एव तैलस्य निष्पीडनेन करणम् , असतस्तु करणे न निदर्शनं किञ्चित् ; ननूत्पत्तेः प्राक् कार्यस्यासत्त्वं नाम विद्यमानप्रागभावप्रतियोगित्वं, तच्च अत्यन्तासति शशशृङ्गादौ नास्ति, उत्पत्त्यनन्तरं विद्यमाने घटादौ विद्यमानत्वरूपसत्त्वमप्यस्ति, उत्पत्तितः प्राक् कपालादौ विद्यमानस्य प्रागभावस्य प्रतियोगित्वरूपमसत्त्वमप्यस्तीत्येवं निरुक्तसत्त्वासत्त्वयोर्न विरोध इति वाच्यम् , यथाहि सन्मात्रानुगामित्वाद् विद्यमानत्वमेव सत्त्वं तथाऽसन्मात्रानुगामित्वादविद्यमानत्वमेव लाघवादसत्त्वम् , असद्वयवहारस्य तत एवासन्मात्रे भावात् , एवं च असदकारणान्नोत्पत्तेः प्राक्कार्यस्यासत्त्वं किन्तु उत्पत्तेः प्राक् सदेव कार्यम् ; तथा उपादानग्रहणादपि सत्कार्यम् , शालिफलार्थी शालिबीजमेवोपादत्ते यवफलार्थी यवबीजमेवोपादत्ते इत्येवं प्रतिनियतोपादानस्य कार्यस्य सत्त्व एवोपपत्तेः, असत उत्पत्तौ तु शालिफलं यथा कोद्रवादिबीजेऽसत् तथा शालिबीजेऽपीति तदर्थं कोद्रवादिबीजस्याप्युपादानं स्यात् , फलायोगस्योभयत्राविशेषात् ; "उपादानेन ग्रहणं सम्बन्धस्ततोऽसतः सम्बन्धाभावात्" इत्येवमुपादानग्रहणादित्यस्याभिप्रेतमन्ये वर्णयन्ति; तथा सर्वसम्भवाभावात् सत् कार्यम् , असतः करणेऽसत्त्वाविशेषे सर्व सर्वस्माद् भवेत् , न च सर्वं सर्वस्मादुपजायते, तस्मात् कार्य प्रागुत्पत्तेः कारणेन सह सम्बद्धमेव तद्वयापारात् प्रादुर्भवतीति तदाहुः