SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १२२ शास्त्रवार्तासमुच्चयः। [तृतीयः "इत्येवं पटुरीश्वरव्यतिकरः सत्तर्कसम्पर्कभाग् , येषां विस्मितमातनोति न मनस्ते नाम वामाशयाः। अस्माकं तु स एक एव शरणं देवाधिदेवः सुखाम्भोधौ यस्य भवन्ति बिन्दव इव स्वासद्मनां सम्पदः" ॥ १॥ ॥ १७॥२१०॥ वार्तान्तरमुपदर्शयतिप्रधानोद्भवमन्ये तु, मन्यन्ते सर्वमेव हि। महदादिक्रमेणेह, कार्यजातं विपश्चितः ॥ १८ ॥ २११ ॥ प्रधानोद्भवमिति । अन्ये तु विपश्चितो मन्यन्ते ईश्वरकर्तृत्वाभ्युपगन्तृव्यतिरिक्ताः साङ्ख्या अभ्युपगच्छन्ति, इह कार्यकारणविचारे, हि निश्चितम् , सर्वमेव कार्यजातं निखिलमेव-जन्यम् , महदादिक्रमेण महतोऽहङ्कारः, तस्मात् षोडशको गणः, षोडशकात् पञ्चतन्मात्रेभ्यः पञ्च भूतानीत्येवं क्रमेण, प्रधानोद्भवं सत्त्वरजस्तमस्साम्यावस्थालक्षणप्रकृतिसमुत्थम् । तथाहि “पञ्चविंशतितत्त्वज्ञो, यत्र कुत्राश्रमे रतः । शिखी मुण्डी जटी वापि, मुच्यते नात्र संशयः" ॥ इति वचनात् साङ्ख्यानां मते पञ्चविंशतितत्त्वज्ञानान्मुक्तिरिति पञ्चविंशतिस्तत्त्वानीत्यवधार्यते, तत्र आत्मा न कस्यापि कारणमिति अकारणम् , न कस्यापि कार्यमिति अकार्यम् , अप्रच्युतानुत्पन्नस्थिरैकरूपत्वाच्चैतन्यात्मकत्वाच्च कूटस्थनित्यचैतन्यरूपश्च, प्रधत्ते प्रधीयते वाऽधिकारा अस्मिन्निति प्रधानं सत्त्वादिसामान्यावस्थादिलक्षणं प्रकृतिरित्युच्यते, सा अचेतना महदाधुत्पादकाशेषशक्तिप्रचिता, न तस्याः कारणमन्यत् किन्तु सा कारणमेवेति आदिकारण, परिणमते महदादिरूपेणेति परिणामिनी च; तदभावे हि परिमितं महदादि व्यक्तं न भवेत् , तथोत्पादकहेत्वभावात् , न च स्याद् भेदानामन्वयः, अन्वयश्च महदादीनामशेषाणां सत्त्वरज-स्तमोगुणान्वितत्वम्, सत्त्वरजस्तमोमयकारणप्रभवत्वमन्तरेण सत्त्वरजस्तमो. जातिमत्कार्यासम्भवात् , कारणविजातीयकार्यानुपलब्ध्या यज्जातीयं कारणं तजातिमत्कार्यमित्यवतेः; न च बुद्धिरेव कार्यधर्मानुविधायिनी, असाधारणत्वात् , अनित्यत्वाच्च न च महदादिहेतुशक्तिप्रवृत्तिः स्यात् , नहि पटादिजननी शक्तिस्तन्तुवायादिकमाधारं विना प्रवर्तते, तथा कारण-कार्यविभागोऽपि न स्यात्, प्रकृतेः
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy