________________
Mm
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः
१२१ न तु युक्त्यागमबाधितयथाश्रुतार्थग्रहणमात्रेण तत्रैव मनो निवेशनीयम् , तथा सति "ग्रावाणः प्लवन्ते” “यजमानः प्रस्तरः” इत्यादिश्रुतिश्रवणेन शिलागमन-यजमानप्रस्तरत्वादिकमवलोकनीयं स्यात् , अत्रार्थे पराप्तस्य मनोः सम्मतिमाह-यथेति, मनुरपि अपिना अस्मदागमयुक्त्यविरोधिप्रकारेण मोक्षमार्गलक्षणधर्मादिप्रतिपादकजैनागमार्थानुसन्धानकतैव धर्मवेत्तेत्युपदेष्टुजैनाचार्यस्य परिग्रहः, अदः अनन्तरमेवाभिधीयमानम् , आह कथयति ॥ १६ ॥ २०९॥ मनुवचनमेवोल्लिखतिआर्ष च धर्मशास्त्रं च, वेदशास्त्राविरोधिना । यस्तर्केणानुसंधत्ते, स धर्म वेद नेतरः ॥ १७ ॥ २१० ॥
आर्ष चेति-वेदादिकं चेत्यर्थः, धर्मशास्त्रं च पुराणादि च धर्मशास्त्रं चेत्यस्य स्थाने धर्मोपदेशं चेत्यपि क्वचित् पाठः, तस्य 'धर्मजनक उपदेशो धर्मोपदेशः, धर्मस्येश्वरस्य वोपदेशो धर्मोपदेशस्तम्' इत्येवं व्याख्यानमन्ये कुर्वन्तीत्युपाध्यायाः, वेदशास्त्राविरोधिना परस्परं वेदशास्त्रोभयाविरोधिना, तर्केण ऊहेन, यः अनिर्दिष्टनामा प्रमाता, अनुसंधत्ते तदुक्तानुसन्धानं करोति, स प्रमाता, धर्म धर्मस्वरूपं, वेद जानाति, यथावदवबुध्यते इति यावत् , नेतरः परस्परवेदशास्त्रोभयाविरोधितर्करहितो न जानाति, तथा च ईश्वरकर्तृत्वप्रतिपादकपरागमस्य न्यायशास्त्राविरोधितर्केण “ईश्वरः परमात्मैव" इत्यादिना "मुक्तिकर्तृत्वं तदनासेवनादेव" इत्यादिना संसारकर्तृत्वं परमात्मलक्षणेश्वरस्य, परमैश्वर्ययुक्तत्वादित्यादिना जीवस्यैवेश्वरस्य कर्तृत्वमित्याशयस्य सम्यग्दृष्टिपरिभावितस्य युक्तत्वं, सम्यग्दृष्टिपरिगृहीतत्वेनैव तदागमस्य प्रामाण्यं समर्थनीयम् , ईदृशं च ग्रन्थकारस्य द्रव्यासत्याभिधानं महेशकर्तृत्वाभिधायकवेदप्रामाण्याभ्युपगन्तृश्रोतृपरिबोधार्थमेवमग्रेऽपीत्युपदिशन्ति श्रीमन्तो यशोविजयोपाध्यायाः, इत्थमीश्वरकर्तृत्ववादरहस्यावेदनप्रवणसम्यग्दृष्टयुद्गीर्यमाणसत्तांकलितविचारो वामाशयानामेव न विस्मितं जनयति, स्याद्वादिनां पुनर्देवाधिदेवो जिन एव शरणं, तदुक्तिपरिपालनान्मुक्तिरवश्यंभाविनी यतः, यत्सुखाम्भोधिकणिका एव देवानां सम्पद इत्येतप्रतिपादकं पद्यमिदमुपाध्यायस्य