________________
१२०
शास्त्रवार्तासमुच्चयः ।
[तृतीयः उक्तदिशा सर्वत्र लोकायतादिव्यतिरिक्तानां शास्त्रकाराणामभिप्रायो मृग्य इति तत्स्तुतिमाह
शास्त्रकारा महात्मानः, प्रायो वीतस्पृहा भवे । सत्त्वार्थसंप्रवृत्ताच, कथं तेऽयुक्तभाषिणः ॥ १५ ॥ २०८ ॥
शास्त्रकारा इति-तत्तद्दर्शनप्रणेतार इत्यर्थः, महात्मानः धर्माभिमुखाः, परलोकाभीरूणां लोकायतादीनां धर्माभिमुखत्वाभावान्न महात्मत्वमतः प्राय इति-अल्पीयसामल्पमेधसां केषाञ्चिदेव लोकायतप्रभृतीनां न महात्मत्वं तद्व्यतिरिक्तानां शास्त्रकाराणां महात्मत्वमस्त्येवेति, धर्मलक्षणहितसाधनोपदर्शकवचन, सन्दर्भो हि शास्त्रमुच्यते, तत्प्रणेतार एव शास्त्रकारा भवन्ति, न च लोकायतप्रभृतयो धर्मोपदेशका इति वस्तुतस्ते शास्त्रकारा एव न भवन्तीति तु न वाच्यं, तथा सति एकान्तवादिनामन्येषामपि न तथाविधशास्त्रकारत्वमिति तेषामपि शास्त्राकारा इत्यनेनाग्रहणप्रसङ्गात्, भवे संसारे, वीतस्प्रहाः लोकमानख्यातिधनलिप्सादिरहिताः, सत्त्वार्थसंप्रवृत्ताश्च सत्त्वानां-प्राणिनां ,अर्थाय-इष्टसाधनसम्पत्तये, सं-सम्यक्, स्वस्वबोधानुसारेण, प्रवृत्ताश्च परोपकारनिरताश्चेति यावत् , शास्त्रकाराणां धर्माभिमुखत्व-लोकमान-ख्याति-धनलिप्सादिरहितत्व-स्वस्वबोधानुसारिपरोपकारप्रवृत्तत्वानामभावे परहितबोधानुकूलशास्त्रप्रणयनप्रवृत्त्यसम्भवात् , ततः कथं कस्मात् , ते निरुक्तगुणविशिष्टाः शास्त्रकाराः, अयक्तभाषिणः इदं श्रोतृणां हितसाधनमिदमहितसाधनमिति ज्ञात्वाऽपि विरुद्वभाषिणः, प्रसिद्धश्च जला-ऽनलयोरिव परोपकारित्व-विरुद्धभाषित्वयोर्विरोधः ॥ १५॥२०८॥
यतश्च शास्त्रकाराणां नायुक्तभाषित्वं ततस्तेषां वचनेष्वापातप्रतीयमानविरोधानुत्पत्तये सम्यगभिप्रायोऽन्वेषणीयो हितैषिणेत्याह
अभिप्रायस्ततस्तेषां, सम्यग् मृग्यो हितैषिणा । न्यायाशास्त्राविरोधेन, यथाह मनुरप्यदः ॥ १६ ॥२०९ ॥
अभिप्राय इति-वचनतात्पर्यमित्यर्थः, ततः अयुक्तभाषित्वाभावात् , तेषां परोपकारप्रवृत्तशास्त्रकाराणाम् , सम्यक् चित्तैकाग्रीकरणपूर्वकव्यासङ्गादिपरिहारेण, मृग्यः अन्वेषणीयः, हितैषिणा परमहितमोक्षाभिलाषिणा, न्यायशास्त्राविरोधेन न्यायस्य सत्तर्कस्य शास्त्रस्यागमस्य च यथा विरोधः-बाधो न भवेत् तथा,