________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः णात् , तदानुगुण्येन भद्रपरिणामविनेयगतेश्वरकर्तृत्वविषयकस्वरसवाहिश्रद्धा वर्द्धतामेव न तु हीयतामित्याशयतस्तथाविधविनेयश्रद्धाऽभिवृद्धये, तस्य परमात्मस्वरूपेश्वरस्य, कर्तृत्वदेशना ईश्वरः कर्तेत्युपदेशः, युज्यत इति शेषः, श्रोतृशिष्यादीन् प्रति गुरूणामुपदेशो हि तद्भावाभिवृद्धये भवति, यादृशं वस्तु न वास्तविकं तथाविधमुत्प्रेक्ष्याप्युदाहरणीकृत्य तबलात् सा निर्वाह्यते, किं पुनरुपचारेणेत्याशयः ॥ १३ ॥ २०६॥
परमात्मन ईश्वरत्वमुपादायोपचारेण कर्तृत्ववादः समर्थितः, यदा च जीवोऽपीश्वरपदबोध्यस्तदा तस्य साक्षादेव कर्तृत्वमिति नोपचाराश्रयणावश्यकतेत्याहपरमैश्वर्ययुक्तत्वान्मत आत्मैव वेश्वरः। स च कर्तेति निर्दोषः, कर्तृवादो व्यवस्थितः ॥ १४ ॥२०७॥
परमैश्वर्ययुक्तत्वादिति-यथा घनावृतस्यापि रवेः प्रकाशस्वभावत्वं व्यवस्थितमेव न त्वपगच्छति तथा कर्मावृतस्याप्यात्मनः शुद्धबुद्धैकस्वभावत्वमवस्थितमेवेति निश्चयनयगोचरीकृतशुद्धबुद्धस्वभावत्वेनोत्कृष्टकेवलज्ञानाद्यतिशयशालित्वादित्यर्थः, वा अथवा, आत्मैव जीव एव, एवकारेण परमात्मनः प्रकृते व्यवच्छेदः, ईश्वरः ईश्वरपदेन संकेतितः, मतः इष्टः, स च जीवश्व, कर्ता साक्षात्कर्ता, आर्हतमतेऽपि, इति एतस्मात् कारणात् , निर्दोषः उपचाराश्रयणदोषेणापि न कलङ्कितः, कर्तृवादः ईश्वरः कर्तेत्युपदेशः, व्यवस्थितः विशेषेण-प्रमाणविषयत्वेन, अवस्थितः-सिद्धिशिखरमारूढः, जीवस्योक्तदिशेश्वरत्वमाश्रित्यापि ईश्वरपरपरागमवचसां सङ्गमनमित्थमुपपादयन्त्युपाध्यायाः-अत एव "विश्वतश्चक्षुरुत विश्वतोमुखः” इत्यादिका श्रुतिरुपपद्यते, जीवस्य निश्चयतः सर्वज्ञत्वात् , अन्यथा रागाद्यावरणविलये तदाविर्भावानुपपत्तेः
"उत्तमः पुरुषस्त्वन्यः, परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य, बिभर्त्यव्यय ईश्वरः" ॥ १ ॥ इत्यादिकमप्युपपद्यते, आवृतस्वरूपादनावृतस्वरूपस्य भिन्नत्वात् , चैतन्यात्मकमहासामान्येन लोकत्रयावेशात् , ग्राह्याकारकोडीकृतत्वेन तद्भरणाच्च, इत्यादिरीत्या यथागमं पराभिप्राय उपपादनीयः” इति ॥ १४ ॥ २०७ ॥