SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ११८ शास्त्रवार्तासमुच्चयः । [तृतीयः उक्तरीत्येश्वरस्य मुक्तिकर्तृत्वसिद्धावपि भवकर्तृत्वं न सिद्धमित्याशङ्काशङ्कुसमुद्धरणायाहतदनासेवनादेव, यत् संसारोऽपि तत्त्वतः । तेन तस्यापि कर्तृत्वं, कल्प्यमानं न दृष्यति ॥ १२ ॥ २०५ ॥ तदनासेवनादेवेति-परमात्मस्वरूपेश्वरप्रणीतागमविहितव्रतानाचरणादेवेत्यर्थः, यत् यस्मात् कारणात् , तत्त्वतः परमार्थतः, संसारोऽपि नरामरादिचतुविधगतिगमनलक्षणसंसरणमपि, जीवस्य भवतीति शेषः, अविरतिमूलकस्य संसारस्य हिंसाविरमणादिपञ्चमहाव्रतानाराधके जीवे भावः स्यादेवेत्याशयः, तेन तदुक्तव्रतापालनेन कारणेन, तस्यापि संसारस्यापि, अपिना मुक्तेराम्रेडनम् , कर्तृत्वं वास्तविकं कर्तृत्वमीश्वरे नास्तीत्यतः कल्प्यमानमिति-स्वहेतुक्रियाविरुद्धविधिबोधितोपासनाकत्वपरेण कर्तृत्वपदेन बोध्यमानमित्यर्थः, स्व-संसारः, तद्धेतुः क्रिया-हिंसाकरणादिरूपहिंसाद्यविरतिलक्षणा, तद्विरुद्धो यो विधिबोधितः स हिंसाविरत्यादिः तत्परिपालनमेवोपासनं यस्येश्वरस्य स स्वहेतुक्रियाविरुद्धविधिबोधितोपासनाकस्तद्भावस्तत्त्वं तत्परेण-तत्तात्पर्यकेण कर्तृत्वपदेन बोध्यमानं जगतः कर्तृत्वं संसारकारणक्रियाविरुद्धविधिबोधितोपासनाकत्वलक्षणमीश्वरस्य न दुष्यति दोषाऽऽघ्रातं न भवति, यथा “अङ्गुल्यग्रे करिशतम्" इति वाक्यमङ्गुल्यग्रवृत्तिकरिशतरूपयथाश्रुतार्थमादायानुपपन्नमप्यनुल्यग्रोपलक्ष्यमाणदेशविशेषपरामुल्यग्रशब्दबोध्यमानदेशविशेषवृत्तिकरिशतरूपोपचरितार्थघटितार्थमादाय व्यवहारवीथिमवतरति तथेश्वरस्य संसारकर्तृत्वव्यवहारोऽपि कर्तृत्वपदस्य स्वहेतुक्रियाविरुद्धविधिबोधितोपासनाकत्वरूपार्थे उपचारेणोपपद्यत इत्याशयः ॥ १२ ॥ २०५॥ उपचारसमाश्रयणेन निरुक्तकर्तृत्वकल्पनायां गुणमुपदर्शयतिकर्ताऽयमिति तद्वाक्ये, यतः केषाश्चिदादरः। अतस्तदानुगुण्येन, तस्य कर्तृत्वदेशना ॥ १३ ॥ २०६ ॥ कर्ताऽयमितीति-ईश्वरः संसारस्य कर्तेत्यवबोधककर्ताऽयमित्येवंस्वरूप इत्यर्थः, तद्वाक्ये परमात्मतीर्थङ्करेश्वरोच्चरितसिद्धान्ते, 'अयं कर्ता' इति प्रसिद्धलौकिकवाक्ये वा, यतः यस्मात् कारणात् , केषाश्चित् तथाविधभद्रकविनेयानाम्, आदरः स्वरसवाहिश्रद्धानलक्षणः, भवतीति शेषः, अतः अस्मात् कार
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy