SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ स्तबकः ] स्याद्वादवाटिकाटीका सङ्कलितः S सद्भावः, न बुद्धेः, गुणत्वादिति नायं दोषः; ननु कुतस्तस्या गुणत्वम् ?, तत्र समवेतत्वादिति नोत्तरम्, तस्यैवानिश्चयात्; तदाधेयत्वात् तस्यास्तत्समवेतत्वमिति चेत् ?, ननु केनैतत् प्रतीयते ?, न तावदीश्वरेण तेनात्मनो ज्ञानस्य चाग्रहणात् 'इदमत्र समवेतम्' इति तस्य प्रतीतेरयोगात् ; तज्ज्ञानस्य तत्र समवेतत्वमेव तग्रहणमित्यपि नोत्तरम्, अन्योऽन्यसंश्रयात् - सिद्धे हि 'इदमत्र' इति ग्रहणे तत्र समवेतत्वसिद्धिः, अस्याश्च तग्रहणसिद्धिरित्यन्योऽन्याश्रयः, तत्रेश्वरस्तज्ज्ञानमात्मनि समवेतमवैति, यश्चात्मीयमपि ज्ञानमात्मनि व्यवस्थितं न वेति स सर्वजगदुपादानसहकारिकारणादिकमवगमयिष्यतीति कः श्रद्धातुमर्हति ?, नापि तज्ज्ञानमवैति 'स्थाणावहं समवेतम्' इति, तेनात्मनोऽवेदनात्, आधारस्य च; न च तदग्रहणे 'इदं मम रूपमत्र स्थितम्' इति प्रतीतिः सम्भवति, न च तद् आत्मानमप्यवैति, अस्वसंविदित्वाभ्युपगमात् न चापरं तग्राहकं नित्यं ज्ञानं तस्येश्वरस्य संभवतियेनैकेन सकलं पदार्थजातमवगमयति, अपरेण तु तज्ज्ञानम्, समानकालं यावद् द्रव्यभाविसजातीयगुणद्वयस्यान्यत्रानुपलब्धेस्तत्रापि तत्कल्पनाऽसम्भवात्, तत्कल्पने वाsकर्तृकमङ्कुरादिकार्यं किं न कल्प्येत; अस्तु वा तत्र यथोक्तं ज्ञानद्वयं तथापि तयोर्ज्ञानयोरन्यतरेण स्वग्रहणविधुरेण न स्वाधारस्य न सहचरस्य ज्ञानस्य नाप्यन्यस्य गोचरस्य ग्रहणम्, तथाहि - यत् स्वग्रहणविधुरं तन्नान्यग्रहणं, यथा घटादि, स्वग्रहणविधुरं च प्रकृतं ज्ञानम्, ततोऽनेन सहचरस्याग्रहणात् कथं तेनास्य ग्रहणम् ?, तेनापि ग्रहणविरहितेनास्य वेदने तदेव वक्तव्यमिति न कस्यचिद् ग्रहणम्, इति न समवेतत्वेन तद्दुद्धेर्ग्रहणम्, नापि तदाधारस्य द्रव्यत्वं सिद्धिमुपगच्छति; तस्मान्नित्यबुद्धिपूर्वकत्वेऽङ्कुरादीनां किमिति युगपदुत्पादो न भवेत् ?, ईश्वरवत् तद्दुद्धेरपि सदा सन्निहितत्वात्, अनित्यबुद्धिसव्यपेक्षस्यापीश्वरस्याचेतनाधिष्ठायकत्वेन जगहधातृत्वे तस्य नित्यत्वेन तद्बुद्धेरपि सदा सन्निहितत्वम्, अविकलकारणयोः सर्वदा सन्निहितत्वाद् युगपदङ्कुरादिकार्योत्पत्तिप्रसङ्गः” इति । किञ्च तदुपादानप्रत्यक्षस्य सकलविषयकस्य साश्रयत्वेऽपि न तदाश्रयत्वेनातिरिक्तमीश्वरात्मद्रव्यं कल्पनीयम्, किन्तु नानात्मस्वेव व्यासज्यवृत्ति तत् कल्प्यताम्, यथा च ज्ञानान्तरेष्वदृष्टमपि नित्यत्वं तत्र तथा ज्ञानान्तरेष्वदृष्टमपि व्यासज्यवृत्तित्वं तत्र स्यादेव यथा च तस्यानित्यत्वे प्रागभाव - ध्वंसादिकल्पनया गौरवमतो लाघवान्नित्यत्वं, तथा तस्य समवायेनेश्वरगतत्वे स्वाश्रयसंयुक्तसंयोगसम्बन्धेन नानात्मगतत्वं तत्तदात्मगतसुखदुःखादिकारणत्वानुरोधेनावश्यं वाच्यमिति निरुक्त १०१
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy