________________
शास्त्रवार्तासमुच्चयः ।
[ तृतीयः
विशेष्यतया महेशकृतेरेव सत्त्वात् कारणत्वमिति चेत् ?, न अतिरिक्तेश्वरकृतिकल्पनापेक्षया कृतेरपि स्वप्रयोज्यसम्बन्धेनैव हेतुत्वात्, गौरवाद् विजातीयसंयोगत्वस्य तत्र संसर्गतानवच्छेदकत्वात्, घटत्वावच्छिन्ने जन्यकृतिमात्रविजातीयकृतित्वेनैव हेतुत्वात् तस्येश्वरकृतावभावेन तस्याः कारणत्वासम्भवान्न तत्सिद्धिरिति दिक् ।
१००
यथा चेश्वरकृतिर्न कारणं तथेश्वरप्रत्यक्षमपि न कारणम्, उपादानप्रत्यक्षस्य लौकिकस्यैव हेतुत्वात्, संयोग-संयुक्तसमवायादिषड्विधलौकिकसन्निकर्षजन्यप्रत्यक्षस्यैव लौकिकत्वेन लौकिकेन्द्रिय सन्निकर्षाजन्यस्येश्वरप्रत्यक्षस्य लौकिकत्वासम्भवादित्युपादानप्रत्यक्षस्य घटादिकारणत्वबलादपि न तत्सिद्धिः; अपि च प्रणिधानाद्यर्थं मनोवहनाड्यादौ प्रवृत्तिः स्वीक्रियते, न च मनोवहनाड्याद्युपादानप्रत्यक्षं प्रणिधान कर्तुरिति यद्धर्मावच्छिन्ने यदर्थिप्रवृत्तिः तद्धर्मावच्छिन्ने तत्प्रकारकज्ञानमात्रस्य हेतुत्वादुपादानप्रत्यक्षत्वेन कारणत्वाभावात् कथमुपादानप्रत्यक्षमीश्वरस्य सिद्ध्यति; जन्यमात्रकारणतया सिद्धस्येश्वरज्ञानस्यानुमितित्वे नित्यानुमितिरेवेश्वरस्येत्यतिप्रसक्ततयाऽनुमितित्वं व्याप्तिज्ञानजन्यतावच्छेदकं न स्यादिति जन्यानुमितित्वं व्याप्तिज्ञानजन्यतावच्छेदकं वाच्यमिति गौरवं स्यादतो नेश्वरज्ञानमनुमितिरूपं किन्तु प्रत्यक्षरूपमेव तदिति भवत्युपादानप्रत्यक्षमीश्वरस्येति कल्पनमपि नैयायिकस्य न युक्तम्, तथा सति ईश्वरज्ञानस्य प्रत्यक्षत्वेऽतिप्रसक्ततया प्रत्यक्षत्वमपि नेन्द्रियजन्यतावच्छेदकमिति जन्य प्रत्यक्षत्वमिन्द्रियजन्यतावच्छेदकं वाच्यमिति गौरवं स्यादिति प्रत्यक्षत्वाभावापत्तेः । अपि च जन्यमात्र कारणतया सिद्धमुपादानप्रत्यक्षं निराश्रयमेवास्त्विति न तदाश्रयतयेश्वरसिद्धिः, यो यो गुणः स द्रव्याश्रित एव दृष्टो जन्यप्रत्यक्षमप्यस्मदादीनां जीवाश्रिततयैवानुभूयत इति निराश्रयमुपादानप्रत्यक्षं दृष्टविपरीतं न कल्पनार्हमिति चेत् ? यद् यज्ज्ञानं तत् तत् किञ्चित्कारणजन्यमेवास्मदादीनामनुभूयत इति तार्किकत्वमात्मनोऽभिमन्यमानो नैयायिकस्त्वं दृष्टविपरीतकल्पनाभीतः किमिति नित्यज्ञानं कल्पयसि ?, इच्छा प्रयत्नावप्यस्मदादीनां ज्ञानेच्छाजन्यावेव दृश्येते तावपीश्वरस्याजन्यौ कथं कल्पयसीति चक्षुषी निमील्य विचारय, उक्तश्चायमर्थः सम्मतिटीकायामपि, तथा च तग्रन्थः
wwwww
“बुद्धिश्वेश्वरस्य यदि नित्या व्यापिकैका चाभ्युपगम्येत तदा सैवाचेतनपदार्थाधिष्ठात्री भविष्यतीति किमपरतदाधारेश्वरात्मपरिकल्पनया ?; अथानाश्रितं तज्ज्ञानं न सम्भवतीति तदात्मपरिकल्पना, ननु तदात्माऽप्यनाश्रितो न सम्भवतीति अपरापराश्रयपरिकल्पनयाऽनन्तेश्वरप्रसङ्गः ; अथ द्रव्यत्वात् तस्यानाश्रितस्यापि