________________
स्तबकः ] स्याद्वादवाटिकाटीकासङ्कलितः तदानीं समवस्थितत्वादेव स एवायं घट इति प्रत्यभिज्ञाऽप्युपपद्यते बाधकमन्तरेण सादृश्यदोषप्रभवत्वमङ्गीकृत्य तस्यां भ्रमत्वकल्पना प्रमाणशून्यत्वाद् गौरवपराहतैव, पाकोत्तीर्णेऽपि घटे सोऽयं घट इति प्रत्यभिज्ञाभावादेव पाकेनापि नान्यघटोत्पत्तिः, घटादेव्यस्य कथञ्चिदविनाशेऽपि विशिष्टसामग्रीवशाद् विशिष्टवर्णस्योत्पत्तिसम्भवात् , अत्र विशेषप्रतिपत्तये सम्मतिटीकाऽवलोक्या, तदानीं कथञ्चिद् घटाद्युत्पत्त्युपगमेऽपि कुलालकृत्यादीनां स्वप्रयोज्यविजातीयसंयोगसम्बन्धेन सत्त्वादेव विशिष्टवर्णस्य घटस्योत्पत्तिसम्भवान्न तदर्थमीश्वरकृतिकल्पना भद्रा, न च पिठरपाकवादिनैयायिकमते पाकेनापि न घटनाश इति अवयवसंयोगस्य पूर्वस्य सत्त्वात् तद्धटितोक्तपरम्परासम्बन्धेन कुलालकृत्यादीनां तदानीं सत्त्वेऽपि पीलुपाकवादिवैशेषिकनये श्यामघटादिनाशोत्तरं रक्तघटाद्युत्पत्तिकाले प्राक्तनपरमाणुद्वयसंयोगद्वयणुकादे शान्न स्वप्रयोज्यविजातीयसंयोगसम्बन्धेन कुलालवृत्त्यादीनां तदानीं सत्त्वमिति वाच्यं, स्वजन्यजन्यादेरपि स्वप्रयोज्यत्वस्य स्वीकारेण पूर्वसंयोगादिध्वंस-पूर्वद्वयणुकादिध्वंसानामुत्तरसंयोगद्वयणुकादावन्ततः कालोपाधितयाऽपि जनकत्वेन तत्कालेऽपि कुलालादिकृतेः स्वप्रयोज्यविजातीयसंयोगसम्बन्धेन सत्त्वात् , उत्तरसंयोगादेरपि परम्परया कुलालकृतिजन्यत्वेन कुलालवृत्तिप्रयोज्यत्वात् , एवमनभ्युपगमे ईश्वरकृतिमुपादाय तदानीं तस्मिन् घटे कृतिजन्यत्वोपपादनसम्भवेऽपि घटत्वावच्छिन्नं प्रति दण्डादीनामपि कारणत्वमिति न तदानीं स्वजन्यचक्रभ्रभिजन्यत्वादिसम्बन्धेन दण्डादीनां सत्त्वमिति दण्डादिकमन्तरेण कथं तद्धटोत्पत्तिर्भवेत् ?, यदि च दण्डादिजन्यतावच्छेदकं विलक्षणघटत्वादिकमेव, तच्च तद्घटादौ नास्तीति दण्डादिकार्यतावच्छेदकधर्मानाक्रान्तत्वाद् दण्डादिकमन्तरेणापि तदुत्पत्तिः सम्भवतीति विभाव्यते तदा यदेव दण्डादिजन्यतावच्छेदकं विलक्षणघटत्वादिकं तदेव कृतिजन्यतावच्छेदकमप्युररीक्रियतां, तथा च कृतिजन्यतावच्छेदकधर्मानाक्रान्तत्वादेव तस्य घटादेः कृतिमन्तरेणाप्युत्पत्तेः सम्भवेन न तदर्थमीश्वरकृतिकल्पनाऽपि युक्ता स्यात् ; ननु स्वप्रयोज्यविजातीयसंयोगादिसम्बन्धापेक्षया विशेष्यत्वसम्बन्धस्य लघुभूतत्वेन तेनैव सम्बन्धेन कृतेर्घटत्वाद्यवच्छिन्नं प्रति हेतुत्वम् , स्वप्रयोज्यकपालद्वयसंयोगापेक्षया स्वजन्यचक्रभ्रमिजन्यत्वस्य न लघुत्वमिति, स्वप्रयोज्यकपालद्वयसंयोगसम्बन्धेन दण्डस्य घटहेतुत्वं सम्भवति, एवं च खण्डघटस्थले स्वप्रयोज्यकपालद्वयसंयोगसम्बन्धेन दण्डस्य सत्त्वात् तस्य तत्र कारणत्वं सम्भवति, कुलालकृतिस्तु न तत्र विशेष्यतया समस्तीति न तस्याः कारणत्वमिति तदानीं तत्र