SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ [तृतीयः ९८ शास्त्रवार्तासमुच्चयः। वल्मीके धर्मिणि कुम्भकारकृतत्वसिद्धये मृद्विकारमात्रं हेतुत्वेनोपादीयमानमिति, यद्बुद्धिमत्कारणत्वेन व्याप्तं देवकुलादौ कार्यत्वं प्रमाणतः प्रसिद्धं तच्च क्षित्यादावसिद्धं यञ्च क्षित्यादौ कार्यत्वमानं हेतुत्वेनोपन्यस्यमानं सिद्धं, तत् साध्यविपर्यये बाधकप्रमाणाभावात् सन्दिग्धव्यतिरेकित्वेनानैकान्तिकं न ततोऽभिमतसाध्यसिद्धिः। नन्वेतत् कार्यसमं नाम जात्युत्तरं, तथाहि-कृतकत्वादनित्यः शब्द इत्युक्ते जातिवादी अत्रापि प्रेरयति-किमिदं घटादिगतं कृतकत्वं हेतुत्वेनोपन्यस्तम् ?, किं वा शब्दगतम्?, अथोभयगतमिति, आद्ये पक्षे हेतोरसिद्धिः, न ह्यन्यधर्मोऽन्यत्र वर्तते, द्वितीयेऽपि साधनविकलो दृष्टान्तः, तृतीयेऽप्येतावेव दोषाविति, एतच्च कार्यसमं नाम जात्युत्तरमिति प्रतिपादितम् , यथोक्तम्-"कार्यत्वान्यत्वलेशेन यत् साध्या, सिद्धिदर्शनं तत् कार्यसमम्” इति, कार्यत्वसामान्यस्यानित्यत्वसाधकत्वेनोपन्यासेऽभ्युपगते धर्मिभेदेन विकल्पनवबुद्धिमत्कारणत्वे क्षित्यादेः कार्यत्वमात्रेण साध्येऽभीष्टे धर्मिभेदेन कार्यत्वादेर्विकल्पनात् , असदेतत् , यतः सामान्येन कार्यत्वानित्यत्वयोर्विपर्यये बाधकप्रमाणबलाद् व्याप्तिसिद्धौ कार्यत्वसामान्य शब्दादौ धर्मिण्युपलभ्यमानमनित्यत्वं साधयतीति कार्यत्वमात्रस्यैव तत्र हेतुत्वेनोपन्यासे धर्मविकल्पनं यत् तत्र क्रियेत तत् सर्वानुमानोच्छेदकत्वेन कार्यसमजात्युत्तरतामासादयति, न त्वेवं क्षित्यादेर्बुद्धिमत्कारणत्वे साध्ये कार्यत्वसामान्य हेतुत्वेन संभवति, तस्य विपर्यये बाधकप्रमाणाभावात् सन्दिग्धविपक्षव्यावृत्तिकत्वेनानैकान्तिकत्वात् यच्च बुद्धिमत्कारणपूर्वकत्वेन व्याप्तं देवकुलादौ कार्यत्वं प्रतिपन्नं यदक्रियादर्शिनोऽपि जीर्णप्रासादादौ कृतबुद्धिमुत्पादयति तत् तत्रासिद्धमिति प्रतिपादितम्" ॥ इति ग्रन्थेन सम्मतिटीकाकृता हेतुविशेषविकल्पने कार्यसमजात्युत्तरं नैयायिकाभिमतमपाकृतम् । यदपि कार्यत्वावच्छिन्न प्रति कृतेर्हेतुत्वाभावेऽपि घटत्वाद्यवच्छिन्नं प्रति कृतेर्हेतुतया खण्डघटोत्पत्तेः पूर्वं कृतेरावश्यकतया तदाश्रयत्वेनेश्वरसिद्धिरिति दीधितिकृन्मतं, 'खण्डघटं पक्षीकृत्य कुलालकृतिजन्यत्वसाधने जीवरूपकुलालकृतेर्बाधादीश्वरसिद्धिः, घटकरणसमर्थस्यैव कुलालत्वेन तादृश[ ]कुलालत्वस्येश्वरेऽपि स्वीकारसम्भवात् , अत एव “नमः कुलालेभ्यः" इति श्रुतिरपि सङ्गच्छते, इत्येवमुपपादितमपि तुच्छम् , जीवकुलालकृतिसमुत्पन्नस्य तदानीं स्थितस्यैव घटस्य खण्डत्वपर्यायोत्पत्त्या खण्डघटत्वस्य स्याद्वादिभिरभ्युपगमात् , खण्डत्वपर्यायोत्पत्तावपि पूर्वोत्पन्नस्य घटस्य
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy