________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः मित्यत्र विनिगमनाविरहेणोभयोरपि विशेष्यत्व-विशेषणत्वतोऽतिगुरुत्वाच्च । न च द्रव्य-गुण-कर्मणां कार्याणां समवायिकारणं द्रव्यमेवेत्यस्योपपत्तये समवायसम्बन्धेन सन्मानं प्रति तादात्म्यसम्बन्धेन द्रव्यं कारणमित्यवश्यमभ्युपेयं, तत्र नित्यद्रव्यनित्यगुणवृत्तित्वेनातिप्रसक्तत्वान्न सत्त्वं कार्यतावच्छेदकं, किन्तु जन्यसत्त्वमेव, तथा च तादात्म्यसम्बन्धावच्छिन्नद्रव्यनिष्ठकारणतानिरूपितसमवायसम्बन्धावच्छिन्नकार्यता किञ्चिद्धर्मावच्छिन्ना कार्यतात्वात् , या या कार्यता सा किञ्चिद्धर्मावच्छिन्ना, यथा कपालनिष्टकारणतानिरूपितघटनिष्टकार्यतेत्येवं द्रव्यजन्यतावच्छेदकतया सिद्धं जन्यसत्त्वं, नित्यगुणजातिसाधारणत्वात् समवेतत्वस्य कार्यतातिप्रसक्तत्वेऽपि जन्यसमवेतमात्रवृत्त्यवच्छिन्नसमवेतत्वं वोपादानप्रत्यक्षादिजन्यतावच्छेदकमिति वाच्यं; तथापि प्रत्येकं विनिगमनाविरहात् , यद्विशेष्ययोः इति न्याये मानाभावेन सामान्यकार्यकारणभावाभावात् , किञ्च व्याप्यधर्मस्य कार्यतावच्छेदकत्वे सम्भवति तदवच्छिन्नं प्रत्येव कारणत्वं युक्तं, न तु व्यापकधर्मावच्छिन्नं प्रति, एवं च प्रायोगिकवैस्रसिकभेदेन कार्य द्विविधमिति कार्यत्वं व्यापकधर्मः, तद्व्याप्यं च प्रायोगिकत्वं वैस्रसिकत्वं च, तत्र वैखसिकस्येन्द्रधनुरादेः प्रयत्नमन्तरेणैव भावाद् वैस्रसिकत्वं न प्रयत्नजन्यतावच्छेदकं, किन्तु प्रायोगिकत्वं संभवति, तस्य प्रयत्नजन्यशैलादिव्यावृत्तस्य प्रयत्नजन्यदेवकुलादिसकलानुगतस्य कस्यचित् प्रयत्नादुत्पन्नोऽयमित्येवमविगानेन सकलजनव्यवहारसिद्धस्य प्रयत्नजन्यतावच्छेदकत्वम् , व्याप्यधर्मत्वात् , अमुमेवाभिप्रायं स्वहृदयगतं कृत्वा
"अथ पृथिव्यादेः कार्यत्वं बौद्धैरभ्युपगम्यत एवेति नासिद्धत्वं तरस्य हेतोः प्रेरणीयम् , नन्वत्रापि यादृग्भूतं बुद्धिमत्पूर्वकत्वेन देवकुलादिष्वन्वय-व्यतिरेकाभ्यां व्याप्तं कार्यत्वमुपलब्धम् , यदक्रियादर्शिनोऽपि जीर्णदेवकुलादावुपलभ्यमानं लौकिकपरीक्षकादेस्तत्र कृतबुद्धिमुत्पादयति, तादृग्भूतस्य क्षित्यादिषु कार्यत्वस्यानुपलब्धेरसिद्धः कार्यत्वलक्षणो हेतुः, उपलम्भे वा तत्र ततो जीर्णदेवकुलादिष्विवाक्रियादर्शिनोऽपि कृतबुद्धिः स्यात् , नह्यन्वय-व्यतिरेकाभ्यां सुविवेचितं कार्य कारणं व्यभिचरति, तस्याहेतुकत्वप्रसङ्गात् , अतः क्षित्यादिषु कार्यत्वदर्शनादक्रियादर्शिनः कृतबुद्ध्यनुत्पत्तेर्यद्बुद्धिमत्कारणत्वेन व्याप्तं कार्यत्वं देवकुलादिषु निश्चितं तत् तत्र नास्तोत्यसिद्धो हेतुः, केवलं कार्यत्वमानं प्रसिद्धं तत्र, न च प्रकृत्या परस्परमर्थान्तरत्वेन व्यवस्थितोऽपि धर्मः शब्दमात्रेणाभेदी हेतुत्वेनोपादीयमानोऽभिमतसाध्यसिद्धये पर्याप्तो भवति, साध्यविपर्ययेऽपि तस्य भावाविरोधात् , यथा
७ शास्त्र०स द्वि०