SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ९६ शास्त्रवार्तासमुच्चयः। [तृतीयः तत्तत्पुरुषीयपटादिमत्त्वप्रकारकोपादानप्रत्यक्षत्वेनोपादानप्रत्यक्षं कारणमिति विशिष्य कार्यकारणभावस्यान्यपुरुषीयोपादानप्रत्यक्षतस्तत्पुरुषीयान्योपादानप्रत्यक्षतो वा प्रवृत्त्यापत्तिवारणायावश्यकतया कार्यत्वावच्छिन्नं प्रति उपादानप्रत्यक्षत्वेनोपादानप्रत्यक्षं कारणमिति सामान्यतः कार्यकारणभावे मानाभावात् , यद्विषयिणी चिकीर्षा तद्विषयिणी प्रवृत्तिर्भवतीति चिकीर्षा प्रवृत्तावेव कारणं, न तु कार्ये, तत्र तस्या अन्यथासिद्धत्वात् , तन्त्वाद्युपादानकपटादिविधेयकतन्तुवायादिकृतितो घटादिकार्योत्पत्तिवारणाय पटत्वावच्छिन्न प्रति तन्तूपादानकपटविधेयकतन्तुवायकृतित्वेन, घटत्वावच्छिन्नं प्रति कपालोपादानकघटविधेयककुलालकृतित्वेन कृतिः कारणमित्येवं विशिष्य तत्तत्कृति-तत्तत्कार्ययोः कार्यकारणभावस्यावश्यकतया कृतित्वकार्यत्वाभ्यां कृति-कार्ययोरपि कार्यकारणभावे मानाभावात् ; न चोक्तदिशा प्रवृत्तिं प्रत्येवोपादानप्रत्यक्षचिकीर्षयोः कारणत्वेन कार्य प्रत्यन्यथासिद्धत्वमिति भवतोऽभिमतं न युक्तं, यतोऽन्वय-व्यतिरेकाभ्यामेव कार्यकारणभावग्रहो भवति, अन्वयव्यतिरको च यथा प्रवृत्तिं प्रति ज्ञानचिकीर्षयोस्तथा घटादिकार्यं प्रत्यपीति प्रवृत्ताविव घटादावपि तयोः कारणत्वमेव नान्यथासिद्धत्वम् , विशिष्य तन्नत्कार्य प्रति तत्तत्कृतेः कारणत्वक्लप्तौ कृतित्व-कार्यत्वाभ्यामपि कार्यकारणभावः स्यादेव “यद्विशेषयोः कार्यकारणभावस्तत्सामान्ययोरपि” इति न्यायात् , घटत्व-पटत्वादीनां सामान्यरूपत्वेनाखण्डतया लघुशरीरत्वेऽपि तदपेक्षया प्रागभावप्रतियोगित्वात्मकसखण्डोपाधिरूपत्वेन गुरुशरीरस्यापि कार्यत्वस्य सकलकार्यसङ्ग्राहकत्वेन ज्ञानेच्छादिजन्यतावच्छेदकत्वमुचितं, शरीरलाघवमपेक्ष्य सङ्ग्राहकलाघवस्य न्याय्यत्वात् , अन्यथा कार्यतावच्छेदकभेदेनानन्तकार्यकारणभावापत्तेरिति वाच्यम् ; कार्यत्वं हि न प्रागभावप्रतियोगित्वादिलक्षणसखण्डोपाधिरूपम् , किन्तु लाघवात् कालिकसम्बन्धेन घटत्वादिजातिमत्त्वरूपमेव, जन्यमात्रस्य कालोपाधित्वेन कालिकसम्बन्धेन नित्याधारत्वमिति घटत्वादिमत्त्वमपि सकलकार्यसङ्ग्राहकं भवत्येव, तथा च विनिगमनाविरहात् कालिकसम्बन्धेन घटत्व-पटत्वादिमत्त्वानां सर्वेषामपि ज्ञानेच्छादिजन्यतावच्छेदकत्वप्राप्तौ कार्यत्वस्य कार्यतावच्छेदकत्वेऽपि तन्नानात्वात् कार्यकारणभावानन्त्यं प्रसज्यत एव, ध्वंसेऽपि च कार्यत्वं समस्ति, न च तस्योपादानं किञ्चिदिति न तत्रोपादानगोचरापरोक्षज्ञानादिकार्यतेत्यतिप्रसक्तत्वात् कार्यत्वं ज्ञानादिकार्यतावच्छेदकं न स्यादिति ध्वंसव्यावृत्तं सत्त्वे सति कार्यत्वमेव कार्यतावच्छेदकं वाच्यं, तत्र सत्त्वे सति कार्यत्वं कार्यत्वे सति सत्त्वं वा कार्यतावच्छेदक
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy