SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ स्तबकः ] स्याद्वादवाटिकाटीका सङ्कलितः न्यते, एवं न प्रकृतिर्नापि विकृतिरीश्वर इति योगाचार्यमननमपि न सम्भवति जगत्कारणत्वेन प्रकृतित्वप्रसङ्गात् ; ननु जगतो निमित्तकारणमेव परमेश्वरो न परिणामिकारणं, परिणामित्वमेव च प्रकृतित्वमिति न निमित्ते ईश्वरे प्रकृतित्वप्रसङ्गः, इच्छा द्विविधा-फलेच्छा उपायेच्छा च तत्र फलेच्छां प्रति फलज्ञानं कारणम्, उपायेच्छां प्रतीष्टसाधनताज्ञानमिति योऽयं कार्यकारणभावः स जन्येच्छां प्रति, ईश्वरस्य तु सर्वविषयिणीच्छा नित्यैव न प्रयोजनमपेक्षते, जन्येच्छाया एव रागपदार्थत्वेन तत्सत्त्व एव जन्येच्छाविच्छेदलक्षणं वैराग्यं व्याहन्यते, न तु नित्येच्छासत्त्वे, ऐश्वर्यमपि न जन्यं, किन्तु तत्तत्फलावच्छिन्नेच्छैव, सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, तस्यामवस्थायां न सर्गः, किन्तु रजः प्रभृत्यु के सति सर्गो भवतीति रजःप्रभृत्युद्रेकादीश्वरः सर्गं विदधातीति योऽयमभ्युपगमस्तत्रापि तत्तत्कार्यकारितयैवेश्वरे रजःप्रभृत्युद्रेक उपचार्यते न तु परमार्थत इतीश्वरस्याप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वलक्षणं न हीयते इति चेत् ? अत्राहुः श्रीयशोविजयोपाध्यायाः ९५ “ जल्पता गिरिशसाधने गिरं, न्यायदर्शननिवेशपेशलाम् । " साङ्ख्य ! सम्प्रति निजं कुलं त्वया हन्त हन्त सकलं कलङ्कितम् ॥ १ ॥ सेश्वरसाङ्ख्यनिरीश्वरसाङ्ख्यभेदेन साङ्ख्यदर्शनस्य द्वैविध्यम्, पातञ्जलास्तु सेश्वरसाङ्ख्या इति निरीश्वरसाङ्ख्यात् कापिलादीश्वराभ्युपगम एव विशेष इति प्रकृत्यादिप्रक्रियाभ्युपगन्तार एते, एवं च कार्यजनकज्ञानादिसिद्धौ तदाश्रयतया बुद्धिरेव नित्या सिद्ध्येत्, न त्वीश्वरः, बुद्धित्वस्यैव ज्ञानाद्याश्रयतावच्छेदकत्वात्, आत्मत्वस्य ज्ञानाद्याश्रयतावच्छेदकत्वे तु जन्यज्ञानादीनामप्यात्माश्रिततया कर्तृत्वमप्याश्रितमेव भवेन्न तु बुद्ध्याश्रितमिति प्रकृत्यादिप्रक्रिया स्वमान्या तेषामुच्छिद्येतेति प्रकृत्यादिप्रक्रियाभ्युपगन्तारः पातञ्जला नेश्वरं सिद्धिप्रासादे स्थापयितुं प्रगल्भाः । नैयायिकादिरपि न कार्यादिसाधनेन महेश्वरं साधयितुमीष्टे, तथाहि — कार्य सकर्तृकं कार्यत्वाद् घटवदिति प्रथमानुमाने सकर्तृत्वमुपादानगोचरापरोक्षज्ञानजन्यत्वोपादानगोचरचिकीर्षाजन्यत्योपादानगोचरकृतिजन्यत्वानामेकैकपर्यवसायि स्वरूपमेव साध्यमभिमतम्, तत्र व्यभिचारशङ्कानिवर्तकतर्काभावेनाप्रयोजकत्वम्, यत उपादानगोचरापरोक्षज्ञानत्व- कार्यत्वाभ्यां यत्कार्यकारणभावस्तन्मूलको यदि कार्यमुपादानगोचरापरोक्षज्ञानजन्यं न स्यात् कार्यं न स्यादिति तर्को व्यभिचारशङ्कानिवर्तकः पराभिप्रेतः, स च नास्ति, तत्तत्पुरुषीयपटाद्यर्थिप्रवृत्तित्वावच्छिन्नं प्रति
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy