________________
१०२ शास्त्रवार्तासमुच्चयः ।
[तृतीयः परम्परासम्बन्धेन नानात्मगतत्वकल्पनापेक्षया समवायेन नानात्मगतत्वकल्पनैव लाघवाद् युक्ता; न च तस्य प्रमात्मकस्य तत्तद्वत्तानिश्चयस्वरूपस्य तदभाववत्ताबुद्धिप्रतिबन्धकस्य सर्वेष्वात्मसु सत्त्वाद् घटादिभ्रमोच्छेदापत्तिरिति वाच्यं, चैत्रीयबाधबुद्धितो मैत्रीयभ्रमबुद्धिप्रतिबन्धाभावाच्चैत्रीयतद्वत्ताभ्रमं प्रति चैत्रीयतदभावनिश्चयस्यैव प्रतिबन्धकत्वं वाच्यं, चैत्रीयत्वं च समवेतत्वसम्बन्धेन चैत्रवत्त्वं पर्याप्तस्वसम्बन्धेन चैत्रवत्त्वं वेत्यत्र न किञ्चिद् वैषम्यम् , तथा च समवेतत्वसम्बन्धेन चैत्रवत्तद्वत्ताबुद्धिं प्रति पर्याप्तत्वसम्बन्धेन चैत्रवत्तदभाववत्तानिश्चयात्मकबाधबुद्धेः प्रतिबन्धकत्वमिति प्रमात्मकस्य सकलविषयकस्योपादानप्रत्यक्षस्य समवायसम्बन्धेन सकलात्मकस्यापि पर्याप्तत्वसम्बन्धेन चैत्रवत्त्वाभावात् तस्य प्रतिबन्धकतावच्छेदकधर्मानाक्रान्तत्वात् तेन प्रतिबन्धासम्भवात् तत्सत्त्वेऽपि घटादिभ्रमोत्पत्तिसम्भवात् ; अपि च “यत्र तर्हि तोये तेजसि वायौ वा न पाकजो विशेषः, तत्र कथमुद्भवाऽनुद्भव-द्रवत्व-कठिनत्वादयो विशेषाः, कथं वा पार्थिवे प्रतिमादौ प्रतिष्ठादिना संस्कृतेऽपि विशेषाभावात् पूजनादिना धर्मों व्यतिक्रमे त्वधर्मोऽप्रतिष्ठिते तु न किञ्चित् , न च तत्र यजमानधर्मेणान्यस्य साहाय्यकमाचरणीयम् , अन्यधर्मस्यान्यं प्रत्यनुपयोगात् , उपयोगे वा साधारण्यप्रसङ्गात् , अत्रोच्यते
"निमित्तभेदसंसर्गादुद्भवानुद्भवादयः।
देवताः सन्निधानेन, प्रत्यभिज्ञानतोऽपि वा" ॥ १॥ [ ] उपनायकादृष्टविशेषसहाया हि परमाणवो द्रव्यविशेषमारभन्ते, तेषां विशेषादुद्भवानुद्भवविशेषाः प्रादुर्भवन्ति, तथा स्वभावद्रवा अप्यापोनिमित्तभेदप्रतिबद्धद्रवत्वाः कठिनं करकाद्यारभन्ते, इत्यादि स्वयमूहनीयम् ; प्रतिमादयस्तु तेन तेन विधिना सन्निधापितरुद्रोपेन्द्रमहेन्द्राद्यभिमानिदेवताभेदास्तत्र तत्राऽऽराधनीयतामासादयन्ति, दष्टमूछितं राजशरीरमिव विषापनयनविधिनाऽऽपादितचैतन्यम् , सन्निधानं च तत्र तेषामहङ्कार-ममकारौ चित्रादाविव स्वसादृश्यदर्शिनो राज्ञ इति नो दर्शनम्, अन्येषां तु पूर्वपूर्वपूजितप्रत्यभिज्ञानविषयस्य प्रतिष्ठितप्रत्यभिज्ञानविषयस्य च तथात्वमवसेयम्"।
इति कुसुमाञ्जलिग्रन्थावधतेन "देवताः सन्निधानेन" इति नैयायिकाभिमतस्वपक्षेण प्रतिष्ठादिना प्रतिमाविशेष्यकस्वाभेदस्वीयत्वादिप्रकारकं भ्रमात्मकज्ञानं तदाहितसंस्काररूपं ब्रह्मादौ भगवद्गीतावचनप्रामाण्यादीश्वराभिन्ने स्वीकृतं, यदि