________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः
१०३ चेश्वरे सर्वज्ञे दोषाभावाद् भ्रमात्मकज्ञानं सम्भवति तथाप्यहार्यभ्रमरूपं तदवश्यमेष्टव्यमितीश्वरेऽपि जन्यज्ञानं समस्त्येव, बाधकालीनस्येच्छाजन्यस्यैवाहार्यत्वात् , एवं स्वस्वकामिन्यादिसम्पर्कप्रभवसुख-तद्वियोगप्रभवदुःखादिकं ब्रह्मादिषु श्रूयते, न च धर्माधर्मावन्तरेण सुखदुःखाद्युत्पत्तिसम्भव इति तावप्यङ्गीकर्तव्यौ, न चानित्यज्ञानादिनित्यज्ञानयोर्विशेषान्नैकत्र सम्भव इति वाच्यम् , ब्रह्मादिशरीरावच्छेदेनानित्यज्ञानादिसत्त्वेऽप्यनवच्छिन्ननित्यज्ञानसत्त्वाविरोधात् , अत एव अन्ये तु-"स तपोऽतप्यत" [ ] इति श्रुतेः, अणिमादिप्रतिपादकश्रुतेश्च, धर्माधर्मावनित्यज्ञानादिकमपीश्वरे स्वीकुर्वन्ति" इति शशधरेऽभिहितम्, एतन्मते च बाधादिप्रतिबन्धकतायामवच्छिन्नसमवेतत्वसम्बन्धेन चैत्रवत्त्वादिलक्षणचैत्रीयत्वादेरवश्यं निवेश्यत्वान्नातिरिक्तनित्यज्ञानाश्रयसिद्धिः, किञ्च सुखसाधनविषयसम्पादनादिगोचरप्रवृत्तौ यथाऽन्वय-व्यतिरेकाभ्यामिच्छायाः कारणत्वं तथा दुःखसाधनशत्रुसर्पादिमारणादिगोचरप्रवृत्तावन्वय-व्यतिरेकाभ्यां द्वेषस्यापि कारणत्वमवश्यं वाच्यं, न च प्रवृत्तौ द्वेषयोनित्वमसिद्धम् , दुःखद्वेषेन तत्साधनद्वेष तन्नाशानुकूलप्रवृत्तेः कण्टकादौ दर्शनात् , न च दुःखसाधनद्वेषाद् दुःखसाधनविनाशादिविषयिणीच्छा भवति, ततस्तद्विनाशगोचरप्रवृत्तिरुपजायत इत्येवमिच्छैव तत्रापि कारणं, द्वेषोऽन्यथासिद्ध इति वाच्यम् , तस्य कारणत्वापेक्षया तद्धेतोरेव कारणत्वमिति न्यायाद् द्वेषस्यैव तत्र हेतुत्वौचित्यात् , यदि नैवमुपेयते तदा दुःखसाधने 'द्वेष्मि' इत्यनुभवे अनिष्टसाधनताज्ञानस्य, दुःखे 'द्वेष्मि' इत्यनुभवेऽनिष्टत्वज्ञानस्यैव द्वेषपदाभिलप्यत्वतोऽतिरिक्तद्वेषपदार्थ एव न स्यात् , तथा च यथा कार्यसामान्ये इच्छाया हेतुत्वं तथा कार्यसामान्ये द्वेषस्यापि हेतुत्वसिद्धौ नित्यद्वेषोऽपीश्वरे सिद्ध्येत् , यत्र द्वेषवत्त्वं तत्र संसारित्वमिति व्याप्तेरीश्वरस्य द्वेषवत्त्वे संसारित्वं प्रसज्येतेति चेत् ?, यत्र चिकीर्षावत्त्वं तत्र संसारित्वमिति व्याप्तेरीश्वरे चिकीर्षावत्त्वे संसारित्वं किं न प्रसज्येतेति; ननु यत्र द्वेषस्तन्न क्रियते, यत्र चिकीर्षा तत् क्रियते, इति नियमादीश्वरगतद्वेषचिकीर्षयोर्नित्ययोः समानविषयत्वे युगपदेव कार्यस्य करणाकरणप्रसङ्गः, तयोविभिन्नविषयत्वे यत्र द्वेषस्तत्र न चिकीर्षेति तत्कार्यं कदाचिदपि न कुर्यादिति बाधकादीश्वरे द्वेषकल्पना त्यज्यत इति चेत् ? द्वेषसिद्धयनन्तरं तस्य चिकीर्षया समं समानविषयत्व-भिन्नविषयत्वविकल्पनतोऽनन्तरोपदर्शितो बाधकः समुपतिष्ठते, तेनापि बाधकेन तद्बाधोपगमे, क्लृप्तोऽपीश्वरो नित्यज्ञानादिकल्पनागौरवादिबाधकेनोत्तरकालोपस्थितेन बाधितत्वात् त्यज्यतामिति ।