________________
१०४
शास्त्रवार्तासमुच्चयः।
[तृतीयः एतेन “पुरेषु पुरेशानामिव जगदीशज्ञानेच्छादित एव तत्तत्कार्याणां स्वल्पतमाऽधम-देशकालादिनियमः, वदन्ति हि पामरा अपि 'ईश्वरेच्छैव नियामिका' इति, न चैवं तत्तद्देश-कालनियततत्तत्कार्योत्पत्तिज्ञानादित एव तत्तत्कार्यनिर्वाहे गतं दण्डादिकारणत्वेनेति वाच्यं, तदनुमतत्वेनैव दण्डादीनां घटादिहेतुत्वात् , नहि दण्डादिरेव घटादेरनन्यथासिद्धनियतपूर्ववर्ती, न वेमादिः, कपालादि समवायि, न तन्त्वादिकम् , इत्यत्रान्यद् नियामकं पश्यामः, इति तदनुमत्यादिकमेव तथा, तदनुमत्यादिकं न साक्षात्, किन्तु तत्तत्कारणद्वारा तत्तत्सम्पादकम् , नहि राजाज्ञादितोऽपि विनांशुकं तन्त्वादि, विना तन्त्वादिकं पटादि” इति पामराशयानुसरणसंक्रान्तं पामरभावानां मतमपास्तम्, नहि राजाज्ञादितस्तत्तत्कारणप्रभवं तत्तत्कार्य, भवति किन्तु प्रतिनियतकार्यकारणभावबलात् प्रतिनियतकारणादेव प्रतिनियतं कार्यमिति यथा राजाज्ञादेन कारणत्वं तथा तत्तुल्याया इश्वरेच्छाया अप्यहेतुत्वात् , तत्तत्कार्यस्य तत्तन्नियतदेश-कालत्वं तत्तत्सामग्रीसिद्धमेव न तु तजन्यताघटकमिति तस्य तजन्यताघटकतयेश्वरेच्छाद्यनियम्यत्वात् , अन्यथा तत्कालावच्छिन्नतद्धटावच्छिन्नविशेष्यतासम्बन्धेनोपादाननिष्ठतयोपादानप्रत्यक्षादीनां त्रयाणां घटादिकं प्रति हेतुताकल्पने गौरवात् , उपादानप्रत्यक्षादीनां त्रयाणां समवेतत्वसम्बन्धेनेश्वरीयत्वेनानुगमेऽपि असंसार्यात्मत्वलक्षणेश्वरत्वनिवेशे गौरवात् , उक्तरूपेण कारणत्ववदुपादानप्रत्यक्षत्वादिनाऽपि प्रत्येकरूपेण कारणत्वं किं न स्यादित्येवं विनिगमनाविरहाच्च, तत्कालावच्छिन्नतटावच्छिन्नत्वसम्बन्धेन नियतेरेव हेतुत्वकल्पनौचित्यात्, तावतैव तत्काल एव तद्धटवत्येव तद्धटस्योत्पत्तिरिति देशकालनियमसंभवेन नियत्यतिरिक्तकारणवैयापत्तेश्च, घटादिकं प्रति दण्डादिकमेव कारणं न तु वेमादिकमिति हेतुत्वनियमस्य स्वभावत एव सम्भवेन न हेतुत्वनियमार्थमपीश्वरानुसरणम् , स्वभावतो हेतुत्वनियमानभ्युपगमे ईश्वरज्ञानादेरेव तत्तत्कारणानुमतित्वं नान्वयस्येत्यत्र नियामकान्तरं गवेषणीयम् ; येन प्रमाणेन ईश्वरज्ञानादिकं सिद्धं तेन प्रमाणेन तत्तत्कारणानुमतिरूपमेव तसिद्धमिति न तन्नियमनाय नियामकान्तरापेक्षेति चेत् ? तर्हि येन प्रमाणेन दण्डादिकं घटादिकं प्रति कारणत्वेनावतं तेन प्रमाणेन दण्डादिकमेव घटादेः कारणमिति नियतमेव सिद्धमिति न तन्नियमनायेश्वरज्ञानादिकमपि कल्पनीयमिति; उक्तश्चायमर्थः सम्मतिटीकायामपि___ "न चाचेतनानामपि स्वहेतुसन्निधिसमासादितोत्पत्तीनां चेतनाधिष्ठातृव्यतिरेकेणापि देश-कालाकारनियमोऽनुपपन्नः, तन्नियमस्य स्वहेतुबलायातत्वाद्