________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः अन्यथाऽधिष्ठातृज्ञानकृतोऽपि स न स्यात् , तज्ज्ञानस्य सर्वांचेतनाधिष्ठायकत्वे क्षणिकत्वे च तज्ज्ञेयत्वमेव तदधिष्ठितत्वं तेषां सर्वकालभाविकार्ये तदैव प्रवृत्तिरित्येकक्षण एवोत्तरकालभाविकार्योत्पत्तिप्रसङ्गः, अपरक्षणेऽपि तथाभूतज्ञानसद्भावे पुनरप्यनन्तरकालकार्योत्पत्तिः सदैवेति योऽयं क्रमेणाङ्कुरादिकार्यसद्भावः स विशीयेत, कतिपयाचेतनविषयत्वे च तज्ज्ञानादेस्तदविषयाणां स्वकार्ये प्रवृत्तिर्न स्यात् , इति तत्कार्यशून्यः सकलः संसारः प्रसक्तः, नहि तज्ज्ञानादिविषयत्वव्यतिरेकेणापरं तेषां तदधिष्ठितत्वं परेणाभ्युपगम्यते; अथ नित्यं तज्ज्ञानादि, नन्वेवं क्षणिकं ज्ञानम् , अस्मदादिप्रत्यक्षत्वे सति विभुद्रव्यविशेषगुणत्वात् , शब्दवत् , इत्यत्र प्रयोगे महेशज्ञानेन हेतोर्व्यभिचारः; अथ तज्ज्ञानादिव्यतिरेके सतीति विशेषणान्नायं दोषः, न-विपक्षविरुद्ध विशेषणं हेतोस्ततो व्यावर्तकं भवति, अन्यथा तद्वयावर्तकत्वायोगात्, न च अक्षणिकत्वेन तद्वयतिरिक्तत्वं विरुद्धम् , द्विविधस्यापि विशेषस्यानयोरसिद्धेः, न च विपक्षाविरुद्ध विशेषणोपादानमात्रेण हेतोर्व्यभिचारोद्धारः, अन्यथा न कश्चिद्धेतुर्व्यभिचारी स्यात् , सर्वत्र व्यभिचारविषये एतद्वयतिरिक्तत्वे सतीति विशेषणस्योपादातुं शक्यत्वात् , न च नैयायिकमतेनाक्षणिकं ज्ञानं संभवति, 'अर्थवत् प्रमाणम्' इति वचनात्-अर्थकार्यं ज्ञानं तद्विषयमभ्युपगतम् , अर्थश्च क्रमभावी अतीतोऽनागतश्च, यच्च क्रमवज्ज्ञेयविषयं ज्ञानं तत्क्रमभावि, तथा देवदत्तादिज्ञानं ज्वालादिगोचरम् , क्रमवद्विज्ञेयविषयं चेश्वरज्ञानमिति स्वभावहेतुः, प्रसङ्गसाधनं चेदं, तेनाश्रयासिद्धता हेतो शङ्कनीया, न च विपर्यये बाधकप्रमाणाभावाद् व्याप्यव्यापकभावासिद्धेर्न प्रसङ्गसाधनावकाशोऽत्रेति वक्तव्यं, तस्य भावात् , तथाहि-यदि क्रमवता विषयेण तद् ईश्वरज्ञानं स्वनिर्भासं जन्यते तदा सिद्धमेव ऋमित्वम् , अथ न जन्यते, तदा प्रत्यासत्तिनिबन्धनाभावान्न तज्जानीयात् , विषयमन्तरेणापि च भवतः प्रामाण्यमभ्युपगतं हीयेत, अतीतानागते विषये निर्विषयत्वप्रसङ्गादिति विपर्ययबाधकसद्भावः सिद्धः, तज्ज्ञानादेश्च नित्यत्वे तद्विषयत्वमन्तरेणापरस्य चेतनाधिष्ठितत्वस्याभावादविकलकारणस्य जगतो युगपदुत्पत्तिप्रसङ्गः, तथाहि-यदविकलकारणं तद् भवत्येव, यथाऽन्त्यावस्थाप्राप्तायाः सामग्र्या अविकलकारणो भवन्नङ्कुरः, अविकलकारणं च सर्वदा सर्वमीश्वरज्ञानादिहेतुकं जगदिति युगपद् भवेत्” इति ग्रन्थेन ।
किञ्च, एतादृशनियामकत्वं भवस्थ-सिद्धादिज्ञान एव, इति किं शिपिविष्टकल्पनाकष्टेन ?, तदिदमुक्तं हेमसूरिभिः