________________
शास्त्रवार्तासमुच्चयः ।
“सर्वभावेषु कर्तृत्वं, ज्ञातृत्वं यदि सम्मतम् ।
मतं नः सन्ति सर्वज्ञा, मुक्ताः कायभृतोऽपि हि " ॥ १ ॥ [ युक्तं चैतत्, “जं जहा भगवया दिट्ठं तं तहा विपरिणामद्द” [ यद् यद् भगवता दृष्टं तत् तथा विपरिणमते " ] इति भगवद्वचनस्यापीत्थमेव व्यवस्थितत्वात्,
" समालोच्य क्षुद्रेष्वपि भवननाथस्य भवने, - नियोगाद् भूतानां मितसमयदेश-स्थिति-लयम् । अये ! केयं भ्रान्तिः खततमपि मीमांसनजुषां, व्यवस्थातः कार्ये जगति जगदीशाऽपरिचयः " ॥ १ ॥ इति परकीयं पद्यं प्रति प्रतिपद्यमिदं श्रीमन्न्यायविशारदानाम्"विनष्टीयं पिष्टं भवनियमसिद्धिव्यवसितिः, स्वभावाद् भूतानां मितसमयदेशस्थितिरिति । - अये ! केयं भ्रान्तिः सततमपि तर्कव्यसनिनां,
वृथा यद्व्यापारो जगति जगदीशस्य कथितः " ॥ १ ॥ इति । उक्तानुमानखण्डनयुक्त्यैवापराण्यपि परस्येश्वरसाधकान्यनुमानानि खण्डितानि भवन्ति, किञ्च स्वोपादानगोचरास्वजमकादृष्टाजनिका या कृतिस्तज्जन्यं समवेतं जन्यं स्वोपादानगोचरस्वजनकादृष्टजनकान्यापरोक्षज्ञानचिकीर्षाकृतिजन्यं कार्यत्वादिति द्वितीयानुमाने साध्यघटक 'स्वोपादान' इत्यत्र स्वपदस्य द्वयणुकादिपरत्वे घटादौ दृष्टान्ते द्वयणुकाद्युपादानगोचर-द्वयणुकादिजनकादृष्टजनकान्यापरोक्षज्ञानचिकीर्षाकृतिजन्यत्वरूपसाध्याभावाद् दृष्टान्ताप्रसिद्धि:, घटादिपरत्वे पटादौ संदिग्धानैकान्तिकत्वं घटादिकं प्रति विशेष्यकपालगोचरज्ञानत्वादिना कारणत्वेन स्वोपादानगोचरापरोक्षज्ञानत्वादिना सामान्यतः कार्यत्वावच्छिन्नं प्रति कारणत्वाभावेनाप्रयोजकत्वं च ।
१०६
www
[ तृतीयः
] इति ।
'द्रव्याणि ज्ञानेच्छाकृतिमन्ति कार्यवत्त्वात् कपालवत्' इति तृतीयानुमाने यथा कृतित्वेन कार्यत्वेन सामान्यतो न कार्यकारणभाव इति कार्यवत्त्वमप्रयोजकत्वान्न कृतिमत्त्वसाधनप्रगल्भम्, तथा ज्ञानत्वेन कार्यत्वेन न कार्यकारणभावो न वेच्छात्वेन कार्यत्वेन कार्यकारणभाव इति कार्यवत्त्वप्रयोजकत्वान्न तत्साधनप्रगल्भमिति कार्यकोटौ ज्ञानेच्छापदोपादानं प्रयासमात्रम्, सर्गाद्यकालीनं द्रव्यं ज्ञानवत् कार्यवत्त्वादिति तुरीयानुमाने सर्गाप्रसिद्ध्या परं प्रति पक्षाप्रसिद्धिः ।