________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः
१०७ कार्य सकर्तृकं कार्यत्वादिति प्रथमानुमानमेव कार्यमित्यस्य स्थाने क्षित्यादिकमित्यभिषिच्य यत् पञ्चममनुमानं प्रकृतविचारानुकूलविवादविषयत्वेन च क्षित्यादीनामनुगमः सकर्तृकत्वं च प्रतिनियतकर्तृनिरूपितः सम्बन्धो व्यवहारसाक्षिको घटादिदृष्टान्तदृष्टो नित्यवर्गव्यावृत्त इत्येवमुपबृंहितम् , तत्र क्षित्यादावकर्तृकत्वस्यैव व्यवहाराद् बाधः, विशेषान्वय-व्यतिरेकाभ्यां कर्तृत्वेन कार्यसामान्य एव हेतुत्वग्रहान्न बाध इति चेत् ?, यथा घटादिकार्ये कुलालादिकर्तुरन्वय-व्यतिरेको तथा तच्छरीर-चेष्टयोरपि तत्रान्वयव्यतिरेकाविति ताभ्यां शरीर-चेष्टयोरपि कार्यसामान्ये कारणत्वात् तयोरपि नित्ययोगीश्वरे प्रसक्तिः स्यात् ; अथ नित्यशरीरमिष्यत एव भगवतः, प्रयत्नवदात्मसंयोगासमवायिकारणकक्रियायाश्चेष्टास्वं चेष्टावत्त्वं च शरीरत्वमिति प्रयत्नवदीश्वरात्मसंयोगाधीन क्रियात्मकचेष्टावत्त्वात् परमाणव एवेश्वरस्य शरीराणीत्येके, वायुपरमाणव एव नित्यक्रियावन्त ईश्वरस्य शरीराणि, अत एव तेषां सदागतिमत्त्वमित्यन्ये, “आकाशशरीरं ब्रह्म" [ ] इति श्रुतेः, आकाशस्तच्छरीरमित्यपरे, चेष्टाया नित्यत्वे तु मानाभावः, नित्यज्ञानसिद्धौ तु श्रुतिरपि पक्षपातिनी-“नित्यं विज्ञानम्' [ इत्यादिका, ज्ञानत्वस्य नित्यज्ञानवृत्तित्वस्य श्रुत्या निर्णीतत्वेनातिप्रसक्तत्वान्नात्ममनोयोगजन्यतावच्छेदकत्वमिति ज्ञानत्वावच्छेदेनात्ममनोयोगजन्यत्वमसिद्धं न नित्यज्ञानबाधकमिति चेत् ?, नईश्वरसम्बन्धस्य सर्वत्राविशेषेण 'इदमेवेश्वरशरीरम्' इति नियमाभावात् , चेष्टाया अपि ज्ञानवदेकस्या नित्यायाश्च स्वीकारौचित्यात्, उक्तश्रुतेस्त्वदभिमतेश्वरज्ञानापक्षपातित्वाच्च, अन्यथा आनन्दोऽपि ज्ञानभिन्नस्तत्रोक्तश्रुतिबलात् सिद्ध्येदिति ।
ह्यणुकारम्भकसंयोगजनकसर्गाद्यकालीनाणुकर्मात्मकायोजनेनेश्वरसिद्धिः सर्गाद्यकालीनाणुकर्म प्रयत्नजन्यं कर्मत्वात् अस्मदादिशरीरकर्मवदिति कर्मत्वहेतुकानुमानतः प्राक् प्रतिपादिताऽपि न युक्ता, ईश्वराधिष्ठानस्य सर्वदा सत्त्वेऽप्यदृष्टविलम्बादेवाद्याणुक्रियाविलम्बाददृष्टस्यैवाद्याणुक्रियायां कारणत्वात् , दृष्टकारणकूटसत्त्व एवादृष्टविलम्बेन कार्यविलम्बाभावात् , अदृष्टस्य दृष्टाघातकत्वात् , यत्र यत्र क्रियायां प्रयत्नजन्यत्वं तत्र चेष्टावत्त्वमित्येवं साधनावच्छिन्नसाध्यव्यापकत्वेनाद्याणुक्रियायां क्रियात्वलक्षणसाधनाव्यापकत्वेन चेष्टात्वस्योक्तानुमाने उपाधित्वाच्च, चेष्टात्वावच्छिन्न एव हि जीवनयोनियनव्यावृत्तेन प्रवृत्तित्वेन हेतुत्वात् , चेष्टात्वस्य गमनवादिव्याप्यत्वे तु तदवच्छिन्ने विलक्षणयत्नत्वेनैव हेतुत्वात् क्रियासामान्ये यत्नत्वेन हेतुत्वे मानाभावात् , क्रियाविशेष यनविशेषस्य कारणत्वे क्रियासामान्ये यत्न