SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । [ तृतीयः सामान्यस्य कारणत्वं यद्विशेषयोः कार्यकारणभावस्तत्सामान्ययोरपीति न्यायात् तदा सिध्येद् यद्युक्तन्यायः प्रमाणविषयो भवेत्, न चैवं, तत्र प्रमाणानुपलम्भात् । धृतेरपीश्वरसिद्धिः ‘ब्रह्माण्डादिपतनाभावः पतनप्रतिबन्धकप्रयुक्तः, धृतित्वात्, उत्पतत्पतत्रिपतनाभाववत्, तत्पतत्रिसंयुक्ततृणादिष्टतिवद् वा' इति धृतित्व हेतुकानुमानेन या पूर्वमावेदिता साऽपि न न्यायसङ्गता, गुरुत्ववत् पतनाभावमात्रस्य गुरुत्वेतरहेत्वभावप्रयुक्तस्यान्रफलादावेव व्यभिचारित्वात्, अर्थात् तत्र धृतित्वसत्त्वेऽपि पतनप्रतिबन्धकप्रयुक्तत्वाभावात्, प्रतिबन्धकाभावेतरसामग्रीकालीनत्वे सति धृतित्वस्य हेतूकरणेऽपि वेगवदिषुपतनाभावे निरुक्तहेतुसत्त्वेऽपि पतनप्रति-बन्धकप्रयुक्तत्वाभावेन व्यभिचारात् वेगाप्रयुक्तत्वस्य हेतुघटकतयोपादानेऽफि मन्त्रविशेषप्रयुक्तगोलकपतनाभावे व्यभिचारात्, अदृष्टाप्रयुक्तत्वस्यापि विशेषणत्वे स्वरूपासिद्धिः, ब्रह्माण्डधृतेरप्यदृष्टप्रयुक्तत्वात्, तदुक्तम् — १०८ “निरालम्बा निराधारा, विश्वाधारा वसुन्धरा । यच्चावतिष्ठते तत्र, धर्मादन्यन्न कारणम् ॥ १॥ [ ] इति । पतनप्रतिबन्धकप्रयुक्तत्वमिहेश्वर - प्रयत्नसाधनार्थं साध्यतयोपन्यस्तँ पतनप्रतिबन्धकप्रयत्नप्रयुक्तत्वरूपमेव परस्याभिप्रेतमत आम्रफलादिपतनप्रतिबन्धकवृत्तसंयोगस्य इषुपतनप्रतिबन्धकवेगस्य गोलकपतनप्रतिबन्धकमन्त्रविशेषस्य च प्रयुक्तत्वमुपादाय व्यभिचारपरिहारो न सङ्गतिमञ्चतीति बोध्यम्, युज्यते च ब्रह्माण्डधृतेरप्यदृष्टप्रयुक्तत्वम्, कथमन्यथा धृतेः प्रयत्नवदीश्वरात्मसंयोगप्रयुक्तत्वे प्रयत्नवत ईश्वरस्य व्यापकत्वेन तत्संयोगस्य सङ्ग्रामे प्रक्षिप्ते गुरुत्ववत्यपि शरे सत्त्वेन तत्पातः स्यात्, ततस्तत्पाताभावस्यैव प्रसक्तेः; पतनाभावावच्छिन्नेश्वरप्रयत्नस्य पतनप्रतिबन्धकत्वं, यदा शरस्य पतनमुपजायते तदेश्वरप्रयत्नो न पतनाभावावच्छिन्न इति तत्सत्त्वेऽपि पतनं स्यादिति यदि तदा पतनाभावावच्छिन्नेश्वरज्ञानस्य पतनाभावावच्छिन्नेश्वरेच्छायाश्च विनिगमनाविरहात् तथात्वं प्रसज्येतेत्यतः क्लृप्तजातीयस्यादृष्टस्यैव ब्रह्माण्डधारकत्वकल्पनौचित्यात् ; न च स्याद्वादिमते आत्मनोऽविभुत्वेन तद्गतस्यादृष्टस्य न स्वाश्रयात्मसंयोगसम्बन्धेन ब्रह्माण्डोद रवर्तिनिखिलसक्रियपदार्थसम्बद्धत्वमित्यसम्बद्धस्य तस्य कथं पतनाभावप्रयोजकत्वमिति वाच्यम्, असम्बद्धस्यापि तत्कार्यजननशक्तस्य तत्कार्यकारित्वात् दृश्यते च लोहासम्बद्धस्याप्ययस्कान्तस्य लोहाकर्षकत्वम्, प्रयत्नस्य तु विलक्षणप्रयत्नत्वेन पतनप्रतिबन्धक wwwwww "
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy