________________
स्तबकः ] स्याद्वादवाटिकाटीकासङ्कलितः
१०९ संयोगविशेष एव हेतुत्वम् , तथा च ब्रह्माण्डधारकसंयोगस्य प्रयत्नजन्यसंयोगविलक्षणत्वान्न प्रयत्नजन्यत्वमिति न तद्वारा प्रयत्नप्रयुक्तत्वं ब्रह्माण्डश्तेरिति ।
ब्रह्माण्डनाशः प्रयत्नजन्यो नाशत्वात् पाठ्यमानपटनाशवदित्येवं ब्रह्माण्डनाशकतयेश्वरसाधनं प्रागुपदर्शितं न शोभनम् , प्रलयानभ्युपगमात् , अहोरात्रस्याहोरात्रपूर्वकत्वनियमात् , विवादाध्यासितमहोरात्रमहोरात्रपूर्वकमहोरात्रत्वादिदानीन्तनाहोरात्रवदित्यनुमानेनाहोरात्रप्रवाहस्यानादेरेव सिद्धेः । न च वर्षाद्यदिनत्वेनाभिमतं वर्षादिदिनं वर्षादिदिनपूर्वकं वर्षादिदिनत्वादुभयप्रतिपन्नद्वितीयादिवर्षादिदिनवदित्यनुमाने यथा राशिविशेषावच्छिन्नरविपूर्वकत्वमुपाधिस्तथा प्रकृतानुमानेऽपि अव्यवहितसंसारपूर्वकत्वमुपाधिरिति वाच्यम् , राशिविशेषस्य वर्षादिदिनं प्रति हेतुत्वेन तत्रानुकूलतर्केणोपाधेः साध्यव्यापकत्वग्रहेऽप्यनुकूलतर्काभावेन प्रकृते उपाधेरसमर्थत्वात् , यत्र यत्र कालत्वं तत्र तत्र भोगपदार्थवत्त्वमिति व्याप्तेर्भाग्यपदार्थवत्त्वस्य कालत्वव्यापकत्वेन प्रलयतया पराभिमते काले भोग्यपदार्थरूपव्यापकाभावात् कालत्वस्याप्यभावापत्तेरिति प्रलयकालो न सम्भवति, कर्मणां युगपन्निरोधात् तत्काले न भोग्यपदार्थभाव इति कालत्वस्य न भोग्यव्याप्यत्वमिति न वाच्यं, कर्मणां विषमविपाकतया युगपन्निरोधासम्भवात् , सुषुप्तौ कतिपयादृष्टनिरोधस्य दर्शनावरणनिरोधरूपादृष्टसामर्थ्यादेवोपपत्तेर्बलवताऽदृष्टेनादृष्टान्तरप्रतिरोधदर्शनात् , प्रलये तु कथं तादृशादृष्टं विनाऽदृष्टनिरोधः स्यात् , अन्यथा त्वनायाससिद्धो मोक्ष इति किं ब्रह्मचर्यादिक्लेशानुभवेन ?।
एतेन 'आद्यव्यवहारादीश्वरसिद्धिः, प्रतिसगं मन्वादीनां बहूनां व्यवहारप्रवर्तकाना कल्पने गौरवादेकस्यैव भगवतः सिद्धेः' इत्यपास्तम् , सर्गादेरेवासिद्धेः, इदानीमिव सर्वदा पूर्वपूर्वव्यवहारेणैवोत्तरोत्तरव्यवहारोपपत्तेः, यदि तु सर्गादिरुपेयते तदा तदानीं प्रयोज्य-प्रयोजकवृद्धयोरभावात् कथं व्यवहारः?, अथ यथा मायावी सूत्रसंचाराधिष्ठितदारुपुत्रकं 'घटमानय' इत्यादि नियोज्य घटानयनं सम्पाद्य बालकस्य व्युत्पत्तौ प्रयोजकः, तथेश्वरोऽपि प्रयोज्य-प्रयोजकवृद्धीभूय व्यवहारं कृत्वाऽद्य व्युत्पतिं कारयति, न चात्र घटानयनानुकूला चेष्टा घटानयनगोचरप्रवृत्तिजन्या घटानयनानुकूलचेष्टात्वात् , मदीयस्तनपानाद्यनुकूलचेष्टावत् , अत्र या यदनुकूला चेष्टा सा तद्गोचरप्रवृत्तिजन्येति सामान्यव्याप्तिः प्रयोजिका, इत्येवं चेष्टया प्रवृत्तिम् , घटानयनविषयिणीयं प्रवृत्तिर्घटानयनविशेष्यकेष्टसाधनत्वप्रकारकज्ञानजन्या घटानयनविधेयकप्रवृत्तित्वात् , या यद्विधेयका प्रवृत्तिः सा तद्विशेष्यकेष्ट