________________
शास्त्रवार्तासमुच्चयः ।
[ तृतीयः साधनत्वप्रकारकज्ञानजन्या यथा मदीयस्तन्यपानविधेयकप्रवृत्तिरित्येवं प्रवृत्त्या ज्ञानम् , घटानयनमिष्टसाधनमिति ज्ञानं घटमानयेतिवाक्यजन्यं तदन्वयव्यतिरेकानुविधायिकारणान्तराभावे सति एतद्वाक्यश्रवणानन्तरं जायमानत्वात् , यन्नैवं तन्नैवमित्येवं तज्ज्ञाने उपस्थितघटमानयेतिवाक्यहेतुकत्वम् , घटानयनमिष्टसाधनमिति ज्ञाने घटादितत्तत्पदार्थभानं घटमानयेतिवाक्यघटकघटादिपदज्ञानजन्यं घटादिपदाघटितपटमानयेति वाक्यप्रभवज्ञाने तदभावे सति घटादिपदघटितवाक्यजन्यज्ञानेऽवश्यम्भावादित्येवं तज्ज्ञाने घटादितत्तत्पदार्थभाने आवापोद्वापाभ्यां तत्तत्पदज्ञानहेतुकत्वं चानुमाय घटादितत्तत्पदं घटादितत्तदर्थसम्बन्धवत् तत्तदर्थज्ञानानुकूलत्वादित्येवं तत्तत्पदे तत्तदर्थज्ञानानुकूलत्वेन तत्तदर्थसम्बन्धवत्त्वमनु: मेयम् , एवं चायं बालस्य पदपदार्थसम्बन्धग्रहो भ्रमः स्यात् , प्रयोजक-प्रयोज्यवृद्धयोरीश्वरानतिरेकेण प्रयोज्यवृद्धशरीरगतघटानयनानुकूलचेष्टायाः प्रयोज्यवृद्धेश्वरप्रवृत्तिजन्यत्वेऽपि तदीयघटानयनगोचरप्रवृत्तेर्नित्यायास्तदीयघटानयनविशेष्यकेष्टसाधनताज्ञानाजन्यत्वेन बालस्य प्रयोज्यवृद्धगतनिरुक्तप्रवृत्तिविशेष्यकस्य घटानयनविशेष्यकेष्टसाधनत्वप्रकारकज्ञानजन्यत्वप्रकारकस्य ज्ञानस्य भ्रमत्वात्, एवं प्रयोज्यवृद्धस्येश्वररूपस्य तज्ज्ञानं न जन्यमिति तज्ज्ञानविशेष्यकोपस्थितवाक्यप्रभवत्वप्रकारकज्ञानस्यापि बालस्य भ्रमत्वादिति जनकज्ञानस्य भ्रमत्वे तजन्यस्य बालके पदपदार्थसम्बन्धग्रहस्य भ्रमत्वावश्यम्भावादिति वाच्यं, जनकज्ञानस्य भ्रमत्वेऽपि पदपदार्थसम्बन्धस्याबाधितत्वेन तद्विषयकस्य ज्ञानस्य तजन्यस्य प्रमात्वात् , तत्तत् पदं तत्तदर्थसम्बन्धवत् तत्तदर्थज्ञानानुकूलत्वादित्यत्र तत्तत्पदविशेष्यकतत्तदर्थसम्बन्धप्रकारकानुमितिहेतोस्तत्तदर्थसम्बन्धव्याप्यतत्तदर्थज्ञानानुकूलत्ववत् तत्तत् पदमिति परामर्शस्य प्रमात्वेन तजन्यस्य तत्तत्पदविशेष्यकतत्तदर्थसम्बन्धप्रकारकानुमित्यात्मकपदपदार्थसम्बन्धग्रहस्य जनकज्ञानप्रामाण्यप्रयुक्तप्रामाण्यस्यापि सम्भवाच्च, एवमीश्वर एव कुलालादिशरीरं परिगृह्य घटादिसम्प्रदायप्रवर्तकः, अत एव श्रुतिः-"नमः कुलालेभ्यो नमः कर्मारेभ्यः” [ ] इत्यादि ।
उक्त च, कुसुमाञ्जलावुदयनाचार्येण-"सर्गप्रलयसम्भवाद् अहोरात्रस्याहोरात्रपूर्वकत्वनियमात् कर्मणां विषमविपाकसमयतया युगपद्वृत्तिनिरोधानुपपत्तेर्वर्णादिव्यवस्थानुपपत्तेः समयानुपलब्धौ शाब्दव्यवहारविलोपप्रसङ्गात् , घटादिसम्प्रदायभङ्गप्रसङ्गाच्च कथमेवमिति चेत् ? उच्यते
"वर्षादिवद्भवोपाधिर्वृत्तिरोधः सुषुप्तिवत् । उद्भिदृश्चिकवद् वर्णा, मायावत् समयादयः" ॥ १ ॥