________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः
तत्पूर्वकत्वमात्रे सिद्धसाधनात् , अनन्तरतत्पूर्वकत्वेऽप्रयोजकत्वात् , वर्षादिदिनपूर्वकतद्दिननियमभङ्गवदुपपत्तेः, राश्यादिविशेषसंसर्गरूपकालोपाधिप्रयुक्तं हि तत्, तदभाव एव व्यावृत्तेः, तथेहापि सर्गानुवृत्तिनिमित्तब्रह्माण्डस्थितिरूपकालोपाधिनिबन्धनत्वात् तस्य तदभाव एव व्यावृत्तौ को दोषः?, न च तदनुत्पन्नमनश्वरं वा, अवयवित्वात् , वृत्तिनिरोधस्यापि सुषुप्त्यवस्थावदुपपत्तेः, न ह्यनियतविपाकसमयानि कर्माणीति न तदानीं कृत्स्नान्येव भोगविमुखानि, नह्यचेतनवतः कश्चिद् भोगो नाम, विरोधात्, कस्तर्हि तदानीं शरीरस्योपभोगः ?, तं प्रति न कश्चित् , तर्हि किमर्थमनुवर्तते?, उत्तरभोगार्थ, चक्षुरादिवत्, प्राणिति किमर्थम्?, श्वासप्रश्वाससन्तानेनायुषोऽवस्थाभेदार्थम् , तेन भोगविशेषसिद्धेः, एकस्यैव तत् कथञ्चिदुपपद्यते न तु विश्वस्येति चेत् ?, अनन्ततयाऽनियतविपाकसमयतया उपमर्योपमर्दकस्वभावतया च कर्मणां, विश्वस्यैकस्य वा को विशेषो येन तन्न भवेत् ?, भवति च सर्वस्यैव सुष्वापः क्रमेण न तु युगपदिति चेत् ?, न-कारणक्रमाऽऽयत्तत्वात् कार्यक्रमस्य, न च स्वहेतुबलाऽऽयातः कारणैः क्रमेणैव भवितव्यम् , अनियतत्वादेव, सर्वग्रासवत् , ग्रहाणां ह्यन्यदा समागमानियमेऽपि तथा कदाचित् स्यात् , यथा कलाद्यनियमेऽपि सर्वमण्डलोपरागः स्यात् , त्रिदोषसन्निपातवद् वा, यथा हि वात-पित्त-श्लेष्मणां चयप्रकोपप्रशमक्रमानियमेऽपि एकदा सन्निपातः स्यात् तदा देहसंहारः, तथा कालानल-पवन-महार्णवानां सन्निपाते ब्रह्माण्डदेहप्रलयावस्थायां युगपदेव भोगरहिताश्चेतनाः स्युरिति को विरोधः ?, तथापि विदेहाः कर्मिण इति दुर्घटमिति चेत् ?, किमत्र दुर्घटम् ?, भोगनिरोधवच्छरीरेन्द्रियविषयनिमित्तनिरोधादेव तदुपपत्तेः, वृश्चिकतण्डुलीयकादिवद् वर्णादिव्यवस्थाऽप्युपपद्यते, यथा हि वृश्चिकपूर्वकत्वेऽपि वृश्चिकस्य गोमयादाद्यः, तण्डुलीयकपूर्वकत्वेऽपि तण्डुलीयकस्य तण्डुलीयकादाद्यः, वह्निपूर्वकत्वेऽपि वढेररणेराद्यः, एवं क्षीर-दधि-घृत-तैल-कदली. काण्डादयः, तथा मानुष-पशु-गो-ब्राह्मणपूर्वकत्वेऽपि तेषां प्राथमिकास्तत्तत्कर्मोपनिबद्धभूतभेदहेतुका एव स एव हेतुः सर्वानुगत इति सर्वेषां तत्सान्तानिकानां समानजातीयत्वमिति किमसङ्गतम् ?, गतं तर्हि गोपूर्वकोऽयं गोत्वादित्यादिना, न गतं, योनिजेष्वेव व्यवस्थापनम् , मानसास्त्वन्यथाऽपीति, गोमयवृश्चिकादिदानीमपि किं न स्याद् ? इति चेत् , न-कालविशेषनियतत्वात् कार्यविशेषाणां, नहि वर्षासु गोमयात् शालूक इति हेमन्ते किं न स्यात् ?, समयोऽप्येकेनैव मायाविनेव व्युत्पाद्यव्युत्पादकभावावस्थितनानाकायाधिष्ठानाद् व्यवहारत एव सुकरः, यथा