SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ११२ शास्त्रवार्तासमुच्चयः। [तृतीयः हि-मायावी सूत्रसञ्चाराधिष्ठितं दारुपुत्रकम् इदमानयेति प्रयुङ्क्ते, स च दारुपुत्रकस्तथा करोति, तदा चेतनव्यवहारादिवत् तदर्शी बालो व्युत्पद्यते तथेहापि स्यात्, क्रियाव्युत्पत्तिरपि तत एव कुलाल-कुविन्दादीनाम्" इति । इति चेत् , न-अदृष्टाभावेन प्रयोज्यादिशरीरपरिग्रहस्यैव भगवतोऽयुक्तत्वात् , अन्यादृष्टेनान्यस्य शरीरपरिग्रहे चैत्रादृष्टाकृष्टं शरीरं मैत्रोऽपि परिगृह्णीयात् ; प्राण्यदृष्टेन घटादिवत् तत्तच्छरीरोत्पत्तिः, तत्परिग्रहस्तु भगवतस्तदावेश एवेति न दोष इति चेत् ?, न-घटादावतथात्वेऽपि तदीयशरीरे तदीयादृष्टत्वेनैव हेतुत्वात् , अन्यथा चैत्रादृष्टेन मैत्रशरीरोत्पत्तिरपि प्रसज्येतेति; किञ्च, प्राण्यदृष्टेनोत्पन्ने शरीरे भगवत आवेशस्तत्परिग्रहः' इति यदुक्तं तत्र कोऽयमावेशो नाम?, तच्छरीरावच्छिन्न प्रयत्न एव तच्छरीरावेश इति चेत् ? न-अवच्छेदकतासम्बन्धेन प्रयत्नं प्रति तादात्म्यसम्बन्धेन शरीरं कारणमिति शरीरेऽवच्छेदकतयोत्पद्यमानः प्रयत्नः शरीरावच्छिन्नो भवति, ईश्वरप्रयत्नस्तु नित्यत्वान्न शरीरे अवच्छेदकतासम्बन्धेनोत्पद्यत इति कुलालादिशरीराजन्यस्येश्वरप्रयत्नस्य कुलालादिशरीरावच्छिन्नत्वासम्भवात् ; अथैवं भूतावेशानुपपत्तिः, तत्र हि यच्छरीरे प्रविष्टो भूतस्तच्छरीरावच्छेदेन भूतात्मन्येव प्रवृत्तिरङ्गीक्रियते, तच्छरीरवतो जीवस्य यद्यत्पदार्थविषयकं ज्ञानं नास्ति तत्तत्पदार्थमपि भूतात्मा प्रतिपादयति तत्प्रतिपादनानुकूलप्रयत्नो भूतात्मगतोऽन्यजीवशरीराजन्योऽपि तदवच्छिन्न इति तजन्यस्यैव तदवच्छिन्नत्वमिति नास्ति नियमः, इत्यन्यजीवशरीराजन्योऽपीश्वरप्रयत्नस्तच्छरीरावच्छिन्न इति भवति तदावेशः, न च यच्छरीरे प्रविशति भूतस्तदात्मन्येव तादृशप्रयत्नं जनयति येन स जीवस्तत्तत्पदार्थानभिज्ञोऽपि तत्तत्पदार्थ प्रतिपादयतीति वाच्यं, मृतशरीरे नान्यजीवो वर्ततेऽथापि तत्र प्रविष्टो भूतो यथा तथा वचनचेष्टादिकं विदधातीति तत्र भूतात्मनि प्रयत्नानभ्युपगमे मृतावेशानापत्तेरिति चेत् ? इयमपि तवैव नैयायिकस्थानुपपत्तिः, अस्माकं तु जिनवचनैकनिरतानां तत्र सङ्कोच-विकासस्वभावभूतात्मप्रदेशानुप्रवेशादुपपत्तेः, नैयायिकमते तु अवच्छेदकतासम्बन्धेन चैत्रप्रयत्नं प्रति चैत्रशरीरत्वेन हेतुताऽवश्यं वक्तव्या, विशिष्योक्तकार्यकारणभावानभ्युपगमे सामान्यतोऽवच्छेदकतासम्बन्धेन प्रयत्नत्वावच्छिन्नं प्रति शरीरत्वेन कारणत्वाभ्युपगमे तद्धलान्मैत्रशरीरावच्छेदेन चैत्रप्रवृत्त्यापत्तेः; न च सामान्यकारणबलादापत्तिस्तदैव भवति, कारणान्तरमप्यापादकं किमपि तत्सहकारि भवेत् , प्रकृते तन्नास्तीति नोक्तापत्तिसम्भव इति वाच्यं, पाण्यादिचालकप्रयत्नसत्त्व एव पुनस्तदापत्तिवारणा
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy