________________
स्तबकः]
स्याद्वादवाटिकाटीकासङ्कलितः
११३
यावच्छेदकतया तत्प्रयत्ने अवच्छेदकतात प्रयत्नाभावस्य कारणत्वेन तद्रूपकारणस्यापादकस्य बलादुक्तापत्तिसम्भवात् ,तत्तच्छरीरत्वेन तत्तत्प्रवृत्त्यादिहेतुत्वाभ्युपगमोऽपि नैयायिकस्य गौरवपराहत एव, कायव्यूहस्थलेऽपि योगजादृष्टापगृहीतत्वसम्बन्धेन तदात्मवत्त्वस्य सर्वशरीरानुगतत्वादेव सर्वशरीरावच्छेदेन योगिनः कर्मभोगोपपत्तिः; अपि च यथा कथञ्चिद् भूतावेशन्यायेनेश्वरस्य प्रयोज्यवृद्धादिशरीरपरिग्रहे जगदप्यावेशेनैव प्रवर्तयेदिति व्यर्थमस्य वेदादिप्रणयनम् ; कर्मवदीश्वरस्यापि दृष्टेष्टानतिलङ्घनेनैव प्रवर्तकत्वान्नानुपपत्तिरिति चेत् ? तर्हि परप्रवृत्तये वाक्यमुपदिशन्नीश्वरः स्वेष्टसाधनताज्ञानादिकमपि प्रवृत्तिकारणं कथमतिपतेत् , कथं वा चेष्टात्वावच्छिन्ने विलक्षणयत्नत्वेन हेतुत्वाद् विलक्षणयत्नत्वावच्छिन्नस्य विजातीयमनःसंयोगादिजन्यत्वात् तादृशप्रयत्नं विना ब्रह्मादिशरीरचेष्टा; विलक्षणचेष्टायां विलक्षणप्रयनस्य हेतुत्वादत्रेश्वरीययत्न एव हेतुरिति चेत् ?, तीश्वरयत्नस्य सर्वत्राविशिष्टत्वात् सर्वत्रापीश्वरचेष्टापत्तिः, विलक्षणचेष्टावच्छिन्न विशेष्यतयेश्वरप्रयत्नस्य हेतुत्वान्नातिप्रसङ्ग इति चेत् ?, तर्हि चेष्टावैलक्षण्यसिद्धौ तथाहेतुत्वं, तथाहेतुत्वे च तद्वैलक्षण्यमिति परस्पराश्रयः, किञ्च शरीराद्यन्तरं स्वाधिष्ठातरि भोगजनकमेव भवति, ईश्वरेण तु स्वाधिष्ठातरि भोगाजनकमेव शरीरादिकं सम्पादयतीत्येतद् दृष्टविरुद्धं तस्यैश्वर्यमात्रमेव, इति दृष्टविरोधेनैव जगत्प्रवृत्तिरायाता । एतेनैतत् प्रतिक्षिप्तम्
"हेत्वभावे फलाभावात् , प्रमाणेऽसति न प्रमा।
तदभावात् प्रवृत्तिों , कर्मवादेऽप्ययं विधिः" ॥ १ ॥ इति, इयं च कारिका कुसुमाञ्जलावुदयनाचार्यस्य, तत्सन्दर्भश्चायम्-“अस्त्वर्थापत्तिस्तर्हि बाधिका, तथाहि-यद्यभविष्यन्नोपादेक्ष्यत् , न ह्यसावनुपदिश्य प्रवर्तयितुं न जानाति, अत उपदेश एवान्यथानुपपद्यमानस्तथाविधस्याभावमौदासीन्य वाऽऽवेदयति, न-अन्यथैवोपपत्तेः ।
"हेत्वभावे फलाभावात् , प्रमाणेऽसति न प्रमा।
तदभावात् प्रवृत्तिों , कर्मवादेऽप्ययं विधिः" ॥ १ ॥ बुद्धिपूर्वा हि प्रवृत्तिर्न बुद्धिमनुत्पाद्य शक्यसम्पादना, न च प्रकृते बुद्धिरप्युपदेशमन्तरेण शक्यसिद्धिः, तस्यैव तत्कारणत्वात् , भूतावेशन्यायेन प्रवर्तयेदिति चेत् ? प्रवर्तयेदेव यदि तदा फलसिद्धिः स्यात् , न त्वेवं, कुत एतदवसितम् ?, उपदेशान्यथानुपपत्त्यैव, यस्यापि मते अदृष्टवशादेव भूतानां प्रवृत्तिस्तस्यापि
८ शास्त्र०स० द्वि०