________________
११४ शास्त्रवार्तासमुच्चयः।
[तृतीयः तुल्यमेतत् , यद्यस्ति प्रवृत्तिनिमित्तमदृष्टं किमुपदेशेन ?, तत एव प्रवृत्तिसिद्धेः, न चेत् ? तथापि किमुपदेशेन ?, तदभावे तस्मिन् सत्यप्यप्रवृत्तेः, नित्यः स्वतन्त्र उपदेशो न पर्यनुयोज्य इति चेत् ? यूयं पर्यनुयोज्याः-ये तमवधानतो धारयन्ति विचारयन्ति चेति, एतत्प्रबन्धेनैतदेवावधारितं नैयायिकप्रवरेण यदुत यस्य यावन्ति कारणानि दृष्टादृष्टस्वरूपाणि तावत्कारणसहकारेणैवेश्वरोऽपि कार्य कर्तुं प्रभु भूतावेशन्यायेन अन्यथा कार्यमात्रमेव भूतावेशन्यायेन कुर्यादिति उपदेशादिकमनर्थकमापयेतेति सर्गादौ भूतावेशन्यायेन कारणसम्पादनं युक्तिशून्यमाग्रहविजृम्भितमेवेति, कर्मणः कादिसापेक्षत्वेनैव जगद्धेतुत्वात् ; समर्थितं च
"धर्मा-ऽधर्मों विना नाझं, विनाङ्गेन मुखं कुतः?।
मुखाद् विना न वक्तृत्वं, तच्छास्तारः परे कथम् ? ॥ १॥”[ ] इति, शरीरस्य स्वोपात्तमामकर्महेतुकत्वान्नामकर्मवैचित्र्येण शरीरवैचित्र्यात् , अन्यथाऽङ्गोपाङ्गवर्णादिप्रतिनियमो न स्यात् , तस्मात्, मायाविवत् समयग्राहकत्वादिकं पराभिमतेश्वरस्य विद्याधरविशेषस्य मायावितामेव प्रकटयति, यथा च पित्रादिः पुत्रादिकं समयादिकं ग्राहयति तथा युगादीशो युगादौ जगदेव शिक्षया समयं ग्राहयति घटादिसम्प्रदायं च प्रवर्तयति, तीर्थकृतां परोपकारित्वं स्वभावादेव,
युगादीशगतसमयग्राहकत्व-घटादिसम्प्रदायप्रवर्तकत्वाश्रयणेनैव "कुलालेभ्यो नमः" . इत्याद्या श्रुतिः सङ्गतिमङ्गतीति ॥
प्रत्ययादिना तु वेदप्रामाण्यवादिनामाप्ततत्तद्वक्तृसिद्धावपि नेश्वरसिद्धिः, इति न प्रत्ययादिना तत्साधनं सुसङ्गतम् , एतेन
"उद्देश एव तात्पर्य, व्याख्याविश्वदृशः सती।
ईश्वरादिपदं सार्थ, लोकवृत्तानुसारतः ॥ १॥"[ ] इत्यादिना कार्यादिपदानां तात्पर्याद्यर्थान्तरपरत्वमाश्रित्य तत ईश्वरसाधनमपि प्रयासमात्रम् , जन्यतत्प्रमासाम्ये तत्प्रमात्वेन गुणतया हेतुत्वात् , आद्यप्रमाजनकप्रमाश्रयतयेश्वरसिद्धिरिति तु न समीचीनम् , घटत्वादिमद्वृत्तिविशेष्यतासम्बन्धेन प्रमायां घटत्वादिमद्वृत्तिविशेष्यतासम्बन्धेन घटत्वादिविषयकत्वेन घटत्वादिविषयक कारणं, घटत्वादिविषयकं च यथा ज्ञानं तथा संस्कारोऽपि सर्गाद्यकालीनास्मदाद्याद्यप्रमात्मकज्ञानात् पूर्वक्षणेऽस्मदादेर्घटत्वादिविषयकज्ञानस्य सत्त्वेऽपि पूर्वपरामर्शीयघटत्वादिविषयकप्रमात्मकानुभवप्रभवस्य घटत्वादिविषयकसंस्कारस्य घट