________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः
११५ त्वादिमद्वृत्तिविशेष्यतासम्बन्धेन घटत्वादिमति घटादौ सत्त्वात् ततो घटत्वादिप्रकारकप्रमात्मकसर्गाद्यकालीनज्ञानस्य घटत्वादिमद्वृत्तिविशेष्यतासम्बन्धेन तत्रोत्पत्तिः सम्भवत्येवेति न तदर्थमीश्वरप्रमात्मकज्ञानमभ्युपेयं, विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावेऽपि चैत्रीयप्रमात्मकगुणान्मैत्रीयप्रमोत्पत्त्यापत्तिवारणाय तत्तत्पुरुषीयप्रमा प्रति तत्तत्पुरुषीयप्रमात्मकगुणस्य कारणत्वस्य स्वीकरणीयतया आद्यास्मदादिप्रमाया ईश्वरीयप्रमात्मकगुणादुत्पत्तिर्न सम्भवतीति, किञ्च ज्ञानमात्रं साक्षात् परम्परया वा प्रत्यक्षपूर्वकमेव भवतीति, सर्गाद्यकालेऽस्मदाद्याद्यप्रमात्मकं ज्ञानं प्रत्यक्षात्मकमेव सर्गाद्यभ्युपगन्तुर्नैयायिकस्य मते वाच्यं, प्रमात्मकप्रत्यक्षे च विशेषणवद् विशेष्येण सममिन्द्रियसन्निकर्ष एव गुणविधया कारणं, तथा च घटत्वादिप्रकारकप्रत्यक्षात्मकप्रमायां घटत्वादिमता सममिन्द्रियसन्निकर्ष एव गुणविधया कारणम् , घटत्वादिप्रमामात्रं प्रति वा समवायसबन्धेन घटत्वादिमत्त्वेन कारणमिति नातोऽपीश्वरप्रमाया अपेक्षेति न तदाश्रयतयेश्वरसिद्धिः; आर्हतमते तु प्रमा प्रति गुणविधया सम्यग्दर्शनस्यैव हेतुत्वमिति ॥
संख्याविशेषादपि नेश्वरसिद्धिः, लौकिकसन्निकर्षजन्यालौकिकापेक्षाबुद्धेरेव सङ्ख्याहेतुत्वात्; नित्यतयाऽभ्युपगतस्येश्वरज्ञानस्य लौकिकसन्निकर्षाजन्यत्वेन लौकिकापेक्षाबुद्धित्वाभावेन सङ्ख्यां प्रत्यसाधारणकारणत्वाभावात् , नैयायिकेन सङ्ख्याकारणतयाऽभ्युपगताया अपेक्षाबुद्धेराहतेन सङ्ख्याव्यवहारनिमित्ततयोपगतत्वेनापेक्षाबुद्धिजन्यातिरिक्तसङ्ख्याऽसिद्धेः; न चापेक्षाबुद्धिजन्यपरमाणुगतद्वित्व. द्ध्यणुकगतत्रित्वसङ्ख्याया अनभ्युपगमे घ्यणुकाणुपरिमाणब्यणुकमहत्त्वपरिमाणानुत्पत्तिः स्यात् , परिमाणस्य स्वसमानजातीयोत्कृष्टपरिमाणजनकत्वनियमेन घ्यणुकपरिमाणस्य परमाणुपरिमाणसमानजातीयत्वेऽप्युत्कृष्टत्वाभावेन त्र्यणुकपरिमाणस्य ध्यणुकपरिमाणोत्कृष्टत्वेऽपि समानजातीयत्वाभावाभ्यां ताभ्यां तयोरुत्पत्त्यसंभवादिति वाच्यं, ब्यणुक-त्र्यणुकपरिमाणयोर्द्रव्यपरिमाणविशेषरूपयोः संघातभेदादिकृतत्वेन सङ्ख्याजन्यत्वाभावात् , द्विकपालघटात् त्रिकपालघटपरिमाणोत्कर्षस्य दलोत्कर्षादेवोपपत्तेः, तस्मात्
"कार्या-ऽऽयोजन-धृत्यादेः, पदात् प्रत्ययतः श्रुतेः ।
वाक्यात् सङ्ख्याविशेषाच्च, साध्यो विश्वविदव्ययः” ॥ १ ॥ [ ] इति पद्यप्रतिपादितेश्वरसाधनाशेषप्रकाराणामपाकृतत्वात् प्रकारान्तराणां तत्साध