________________
११६ शास्त्रवार्तासमुच्चयः ।
[तृतीयः कानां च नेश्वरः परपरिकल्पितः सिद्धिकोटिमध्यास्ते, परदिशा तस्य क्षित्याधुपादानमात्रज्ञानसिद्धावप्यतिरिक्तज्ञानासिद्धेः कारणाभावात् मानाभावाच्चेति दिक् ॥
"नैयायिको जैनमताश्रयेण, मनोरथश्चेश्वरकर्तृतायाः। संप्राप्य मानं नयभेदकान्तं, सयुक्तिकं पूरयितुं समर्थः ॥ १ ॥ यथा पिताऽऽलस्यनिवृत्तये स्वान् , बालान् प्रकुर्वीत हितोपदेशान् । तथा नयैः स्वस्वसमीहितेऽर्थे, प्रवर्तयत्येव जिनोऽपि मन्दान् ॥ २ ॥ इति प्रवृद्धाशय आप्तवर्यो, यशोऽभिधानो मिति-नीत्यभिज्ञः । संतुष्टये नैगमनीतितर्कदक्षस्य पद्यद्वयमेतदाह ॥ ३ ॥ "संतुष्य नैयायिकमुख्य ! तस्मादस्माकमेवाश्रय पक्षमत्र्यम् । तवोच्चकैरीश्वरकर्तृताया, मनोरथं सम्प्रति पूरयामः ॥ १॥ नयैः परानप्यनुकूलवृत्तौ, प्रवर्तयत्येव जिनो विनोदे । उक्तानुवादेन पिता हितात् किं, बालस्य नालस्यमपाकरोति!" ॥ २ ॥
इति, ॥९॥ २०२॥ पातञ्जल-नैयायिकोपदर्शितदिशेश्वरकर्तृत्ववादो न घटत इत्युपपादितं, यथा च लोकप्रसिद्धोऽयं घटते तथा जैनसिद्धान्तावलम्बनेन दर्शयतिततश्चेश्वरकर्तृत्ववादोऽयं युज्यते परम् ।।
सम्यग्न्यायाविरोधेन, यथाहुः शुद्धबुद्धयः ॥१०॥ २०३॥ ततश्चेति-पातञ्जल-नैयायिकाभिमतेश्वरकर्तृत्वसाधकयुक्तिकदम्बकापाकरणाञ्चेत्यर्थः, अयं पातञ्जल-नैयायिकोपदेशश्रद्धकतानहृदययुक्तायुक्तविवेकशून्यलोकप्रसिद्धः, ईश्वरकर्तृत्ववादः ईश्वरो जगतः कर्तेति वादः, परं परोपदर्शितप्रकारातिरिक्तप्रकारेण, सम्यग्न्यायाविरोधेन विरोधिततर्काप्रष्यतर्कानुगमनेन, युज्यते घटते, कथं यथा येन प्रकारेण, शुद्धबुद्धयः जैनराद्धान्तावदातमतयः परमर्षयः, आहुः कथयन्ति ॥ १० ॥ २०३ ॥
परमर्षिवचनमेवानुवदतिईश्वरः परमात्मैव, तदुक्तव्रतसेवनात् । यतो मुक्तिस्ततस्तस्याः, कर्ता स्याद् गुणभावतः ॥११॥२०४॥
m
W