________________
सर्वज्ञत्वापत्तिः
५९ भेदाभेदोभयत्वस्य तस्याप्रसिद्धत्वात्, अन्यथाऽस्माकमपि सर्वज्ञत्वापत्तेः । तत्कथमिति चेदित्थं-घटस्य घटत्व-मृन्मयत्व-वृत्तत्वकम्बुग्रीवादिमत्त्वादयो ये धर्मा अस्माकं प्रसिद्धास्तैस्तु वयं तं घटोऽयं, मृन्मयोऽयं, वृत्तोऽयं, कम्बुग्रीवादिमानयमित्येवं जानीम एव, तद्भिन्नास्तु येऽनन्ता धर्मा अस्माकमप्रसिद्धास्तैरपि वयं यदि तं ज्ञातुं समर्थत्वेन जानीमहे तदा प्रसिद्धैरप्रसिद्धैः सर्वैर्धमॆर्घटस्य ज्ञातत्वात् सर्वज्ञत्वं स्यादेव, जो एगं जाणइ सो सव्वं जाणइ त्ति आचाराङ्गसूत्रप्रामाण्यात्, य एकं पदार्थं सर्वैर्धमॆर्जानाति स सर्वान् पदार्थान् सर्वैर्धमैर्जानातीत्यर्थत्वात्तत्सूत्रस्येति । ततश्च यो धर्मो यस्याप्रसिद्धस्तेन धर्मेण स न कञ्चिदपि पदार्थं ज्ञातुं समर्थ इति स्थितम् । एवञ्च भेदाभेदोभयत्वेन धर्मेण भेदस्य न पर्यायार्थिकनयविषयत्वमिति सिद्धं, भेदाभेदोभयत्वस्य पर्यायार्थिकनयस्याप्रसिद्धत्वात् तेन धर्मेण तस्य कस्यापि ज्ञानासम्भवेन भेदस्यापि ज्ञानासम्भवात् । ततश्च भेदाभेदोभयत्वेन भेदस्य योपस्थितिः सा न पर्यायार्थिकनयदृष्टिरूपेति सिद्धम् ।
एवं द्रव्यार्थिकनयोऽप्यभेदमभेदत्वेनैव जानाति, न तु भेदाभेदोभयत्वेन, भेदस्य मुख्यवृत्त्या तदविषयत्वात् तस्याप्रसिद्धत्वेन भेदाभेदोभयत्वस्याप्यप्रसिद्धत्वात् । ततश्चाभेदस्य भेदाभेदोभयत्वेन यो
ઘટત્વને જાણતો નથી. એને ઘડાનો મૃન્મયત્વેન બોધ થઈ શકે છે, પણ ઘટત્વેન નહીં. અપ્રસિદ્ધ (અજ્ઞાત) ધર્મથી પણ જો પદાર્થનો બોધ થઈ શકતો હોય તો તો આપણે સર્વજ્ઞ જ બની જઈએ. એ શી રીતે? આ રીતે - ઘટત્વ, મૃન્મયત્વ, કંબુગ્રીવાદિમત્ત્વ વગેરે પ્રસિદ્ધધર્મોથી તો આપણે ઘડાને જાણી જ શકીએ છીએ. એટલે અપ્રસિદ્ધ ધર્મોથી પણ જો જાણી શકતા હોઈએ તો પ્રસદ્ધિ-અપ્રસિદ્ધ બધા ધર્મોથી ઘડાનું જ્ઞાન થઈ જશે. અને તો પછી જે સર્વધર્મથી એક પદાર્થને જાણે છે તે સર્વધર્મથી सर्व पार्थोने छे' मा ४९॥वना२ जो एगं जाणइ सो सव्वं जाणइ આવા આચારાંગજીના સૂત્રને અનુસરીને સર્વજ્ઞતા આવે જ, તેથી માનવું
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org