Book Title: Samachari Prakaran Part 02
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
આપૃચ્છા સામાચારી आपृच्छां करोति यथा → वस्त्रप्रक्षालनमेव शिष्यस्य
चन्द्र. - शिष्यप्रतिज्ञया हि इत्यादि । अयमत्र स्पष्टोऽर्थ :- प्रथमं शिष्यः गुरुं अहं वस्त्रप्रक्षालनं करोमि । भवान् अनुजानीहि ← इति । तत् श्रुत्वा गुरुश्चिन्तयति साध्यं, यदि च स शिष्यः अविधिना वस्त्रप्रक्षालनं कुर्यात्, तर्हि अपि तस्य साध्यं सिद्ध्येत् । शास्त्रविधिस्तु तस्य साध्यभूतो नास्त्येव । यथा यस्य धनमेव साध्यम्, स न्यायेनान्यायेन वा केनापि प्रकारेण धनं साधयति । न तु तत्र न्यायापेक्षां करोति । एवमत्रापि अपरिणतो हि शिष्यः विधि नैवापेक्षते इति संभवति ← इति । एवं च 'अविधिनापि वस्त्रधोवनं शिष्यस्य वस्त्रशुद्ध्यात्मकस्येष्टस्य साधनं अस्ति' इति गुरोः ज्ञानं भवति । यदि च शिष्यः अविधिनाऽपि वस्त्रधोवने प्रवृत्तिं विदध्यात्, तर्हि सा शिष्यस्य प्रवृत्तिः गुरोरनिष्टानि अविध्यनुमतिजन्यपापकर्मबन्धादीनि जनयति । यतः शिष्ये अन्यस्मिन् वा प्रज्ञापनीये सत्यपि तत्र अनिषिद्धमनुमतमिति न्यायः । गुरुणा च प्रज्ञापनीयेऽपि शिष्ये अविधेः निषेधो न कृतः इति गुरोरविध्यनुमतिदोषः आपतेत् । एतच्च ज्ञात्वा गुरुः स्वानिष्टविनाशाय तदैव शिष्यं प्रति वस्त्रप्रक्षालनस्य विधि प्रतिपादयति । किञ्च शिष्यस्य विधिपूर्विका वस्त्रप्रक्षालनादिप्रवृत्तिः गुरोः इष्टानि कर्मक्षयादिलक्षणानि साधयति । एतदपि गुरुर्जानात्येव । ततश्च "स्वेष्टसाधकविधिप्रवृत्तिः शिष्यस्य भवेत्" इत्येतदर्थमपि गुरुः तत्र विधि प्रख्यापयतीति । एष भावार्थ: प्रतिपादितः । एतदनुसारेण टीकाक्षरार्थो विभावनीयः । तथापि किञ्चिदुच्यते । सूत्रे ऽविधिना = आगमे वस्त्रप्रक्षालनसंबंधी योऽविधिः प्रतिपादितः, तेन तद्धोवनेऽपि = वस्त्रधोवनेऽपि शिष्येष्टसाधनताज्ञानेन = " अविधिनाऽपि वस्त्रप्रक्षालनं मलापनयनादिरूपस्य मदिष्टस्य साधनम्" इति यत् शिष्यमनसि वर्तमानं इष्टसाधनताज्ञानं, तेन तत्र = वस्त्रप्रक्षालने या प्रवृत्तिः भवति । तस्याः शिष्यप्रवृत्तेः स्वानिष्टानुबन्धित्वज्ञानात् = " इदं मदनिष्टानुबन्धि" इति गुरुमनसि संभवत् यद् ज्ञानं, तस्मात् तद्विघाताय= स्वानिष्टविघाताय शिष्यप्रवृत्तौ वा स्वानिष्टानुबन्धित्वविघाताय, अविधिविघातायेति यावत् । न केवलं तद्विघातायैव अपि तु विधिना, वस्त्रधावनादौ तत्प्रवृतेः स्वेष्टसाधनत्वं प्रतिसन्धाय तादृशतत्प्रवृत्यनुकूलविधिज्ञापनाय च = तत्प्रवृतेः = शिष्यप्रवृत्तेः, स्वेष्टसाधनत्वं = स्वपदमत्र गुरुवाचकम् । प्रतिसन्धाय=विनिश्चित्य, तादृशी = स्वेष्टसाधनीभूता या शिष्यस्य विधिना वस्त्रप्रक्षालनरूपा प्रवृत्तिः, तस्याः अनुकूलो यो विधिः, शिष्यमनसि तज्ज्ञानकरणायेति ।
અહીં નિષ્કર્ષ આ પ્રમાણે છે કે, “હું આજે વસ્ત્રોનો કાપ કાઢું ?' એવી શિષ્યની પ્રતિજ્ઞા સાંભળીને ગુરુને એ વાતનો ખ્યાલ આવશે કે “વસ્ત્રપ્રક્ષાલન એ શિષ્યને ઈષ્ટ છે=શિષ્યનું સાધ્ય છે.” સાથે ગુરુને એ પણ વિચાર આવશે કે “શાસ્ત્રમાં જે વસ્ત્રપ્રક્ષાલન સંબંધી અવિધિઓ બતાવી છે. એ અવિધિપૂર્વક વસ્ત્રનું પ્રક્ષાલન એ પણ શિષ્યને તો ઈષ્ટનું સાધન જ લાગશે, કેમકે શિષ્યને તો વસ્ત્રોનો મેલ દૂ૨ ક૨વો છે. પછી એ વિધિથી થાય કે અવિધિથી થાય એમાં અજ્ઞાની શિષ્યને કંઈ ફેર પડતો નથી. એટલે શિષ્યના મનમાં તો એવું જ જ્ઞાન છે કે → વિધિ કે અવિધિ કોઈપણ રીતે વસ્ત્રપ્રક્ષાલન મારા ઈષ્ટનું સાધન છે – હવે આ જ્ઞાન વડે શિષ્ય એમાં પ્રવૃત્તિ કરવાનો. અને મારો શિષ્ય અવિધિમાં પ્રવૃત્તિ કરે. એ તો મને કર્મબંધ કરાવે. અર્થાત્ મારા અનિષ્ટોની પરંપરાને ઉત્પન્ન કરનારી એ શિષ્યપ્રવૃત્તિ બને.”
આ બધું જ્ઞાન ગુરુને થશે. અને એટલે પોતાના થનારા અનિષ્ટોનો વિનાશ કરવા માટે (અથવા તો શિષ્યની પ્રવૃત્તિમાં જે અનિષ્ટાનુબંધિત્વ છે, એનો વિનાશ કરવાને માટે અથવા શિષ્યની અવિધિમાં થનારી પ્રવૃત્તિનો
મહામહોપાધ્યાય ચશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૭ ૫

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 278