________________
रायपसेणइय।
॥१०॥
[३] ['तस्स णवणसंडस्स बहुमज्झदेसभाए इत्थ णं भह एंगे असोगवरपायवे [पन्नत्ते दुरुग्गयकंदमूल
'असोगवरवट्ट-लट्ठसंधि-असिलिटे "घण-मसिण-सिणिद्ध-अणुपुव्विसुजाय-निरुवहत-उव्विद्ध-पवरखंघे अणेगणरप-|
पायव [३] अशोकवरपादपस्य पृथिवीशिलापट्टकस्य च वक्तव्यता औपपातिकग्रन्थानुसारेण ज्ञेया+ । अस्या व्याख्या-१तस्य 'ण'इति वर्णनम् पूर्ववत् २ वनखण्डस्य ३बहुमध्यदेशभागे ४ अत्र एतस्मिन् प्रदेशे ५ महान् ६ एकः ७ अशोकवरपादपः ८ प्रज्ञप्तस्तीर्थकर-गणधरैः। स च किम्भूतः ? इत्याह-'जाव पडिरूवे' अत्र 'यावत् ' शब्देन ग्रन्थान्तरप्रसिद्ध विशेषणजातं सूचितम् । ९ दूरम् उत्-4 प्राबल्येन गतं कन्दस्याधस्तात् मूलं यस्य स दूरोद्गतकन्दमूलः तथा वृत्तभावेन परिणतः-एवं नाम सर्वासु दिक्षु विदिक्षु च शाखाभिः प्रशाखाभिश्च प्रसृतो यथा वर्तुलः प्रतिभासते इति, तथा लष्टा:-मनोज्ञाः सन्धयः-शाखागता यस्य स लष्टसन्धिः तथा अश्लिष्ट:-अन्यैः पादपैः सहासम्पृक्त:-विविक्त इत्यर्थः। ततो विशेषणसमासः स च पदद्वयमीलनेनावसेयः बहूनां पदानां विशेषणसमासानभ्युपगमात् । तथा १० घन:-निबिडः, मसृणः-कोमलत्वक न कर्कशस्पर्शः, स्निग्धः-शुभकान्तिः, आनुपूर्व्यामूलादिपरिपाटया सुष्टु जन्मदोषरहितं यथा भवति एवं जातः आनुपूर्वीसुजातः, तथा निरुपहत:-उपदेहिकाद्युपद्रवरहितः, उद्विद्धः-१० उच्चः,प्रवर:-प्रधानः स्कन्धो यस्य स घनमसृणस्निग्धानुपूर्वीसुजातनिरुपहतोद्विद्धप्रवरस्कन्धः । तथा ११ अनेकस्य नरस्य-मनुष्यस्य ये प्रवरा:-प्रलम्बा भुजाः-बाहवः तैरग्राह्यः-अपरिमेयः अनेकनरप्रवरभुजाग्राह्यः-अनेकपुरुषव्यामैरपि अप्रतिमेयस्थौल्य इत्यर्थः । तथा
+ सा च वक्तव्यता औपपातिकग्रन्थमाश्रित्य अत्रैव मूले संयोजिता। विवरणकारसूचित ग्रन्थान्तरप्रसिद्ध विशेषणजातम् मूलेन सह निवेशितम् ।
Jain Education
emanal
For Private & Personel Use Only
w
jainelibrary.org