________________
रायपसेणइयं ।
॥१८६॥
Jain Educatio
[१०] प्र० तेसिंणं भंते! तणाण य मणीण य पुव्वावरदाहिणुत्तरागतेहिं वातेहिं मंदोंयं मंदायं एइँयाणं वेइयणं कंपियाँणं चार्लियाणं फंदियाणं धंडियाणं खोभियाणं उदीरिदक्षणं केरिसए सद्दे भवति १
उ०- गोयँमा ! " से हानामए सीयाँए वा संदमणीए वा रहस्से वा सच्छत्तस्स
[११०] प्र० - सम्पति १ तेषां मणीनां तृणानां च वातेरितानां शब्दस्वरूपप्रतिपादनार्थमाह-२ भदन्त ! - परमकल्याणयोगिन् ! तृणानां ३ पूर्वापरदक्षिणोत्तरगतैर्वातः ४ मन्दं मन्दं ५ एजितानां - कम्पितानां -६ व्येजितानां विशेषतः कम्पितानां एतदेव पर्यायशब्देन व्याचष्टे ७ कम्पितानां तथा ८ चालितानां इतस्ततो मनाक् विक्षिप्तानां एतदेव पर्यायेण व्याचष्टे - ९स्पन्दितानां तथा १० घट्टितानां परस्परं संघर्षयुक्तानां तथा कथं घट्टितानाम् इत्याह- ११ क्षोभितानां स्वथानाच्चालनमपि कुत इत्याह- १२उदीरितानाम् उत्-प्राबल्येन प्रेरितानाम्, १३ कीदृशः शब्दः प्रज्ञप्तः १
उ०- भगवानाह - १४ गौतम ! १५ स १६ यथानामकः १७ शिविकाया वा १८स्पन्दमानिकाया वा १९ रथस्य वा, तत्र १७ शिबिका जम्पानविशेषरूपा उ परिच्छादिता कोष्ठाकारा, तथा १८ दीघों जम्पानविशेषः पुरुषस्य स्वप्रमाणावकाशदायी स्पन्दमानिका - अनयोश्च १० शब्दः पुरुषोत्पाटितयोः क्षुद्र हेमघण्टिकादिचलनवशतो वेदितव्यः १९ रथश्रेह संग्रामरथः प्रत्येयः अग्रेतन विशेषणानामन्यथाऽसंभवात्, तस्य च फलवेदिका यस्मिन् काले ये पुरुषास्तदपेक्षया कटिप्रमाणाऽवसेया, तस्य च रथस्य विशेषणान्यभिधत्ते - २० सच्छत्रस्य
- इमा अपि प्रश्नोत्तररूपाः सर्वाः कण्डिकाः जीवा० सू० पृ० १८५ पं० १०-५० १८६ पं० ३ । = इदं शब्दवर्णनरूपं समग्र विवरणं जीवा० विवरणमिव अक्षरशः प्रतिभाति-जीवा० वि० प्र० पृ० १९२ पं० २३-० १९५ पं० ३। S या कतिप्र - पा० ४-५ भा० १। -या
national
For Private & Personal Use Only
विमान
वनखण्ड
तृणशब्द
वर्णनम् ।
॥ १८७॥
www.jainelibrary.org